दृशी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृशी, स्त्री, (दृश्यतेऽनयेति । दृश् + इन् । स च कित् । वा ङीष् ।) चक्षुः । इति शब्द- रत्नावली ॥ (यथा, -- “किं सम्भूतं रुचिरयोर्द्विजशृङ्गयोस्ते मध्ये कृशो वहसि यत्र दृशिः श्रिता मे ॥” इति भागवते । ५ । २ । १२ । चेतनः पुरुषः । यथा, पातञ्जलसूत्रम् । २ । २५ । “तदभावात् संयोगाभावो हानं तद्दृशेः कैव- ल्यम् ।” “तस्या अविद्याया अभावात् नाशात् संयोगा- भावः संयोगस्य नाशो भवतीति शेषः । तच्च हानं संयोगविगमः । दृशेः पुरुषस्य कैवल्यं मुक्तिरिति चोच्यते ॥” दृक्शक्तिः । यथा, तत्रैव । २ । २० । “द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ।” दृशिमात्र इति दृक्शक्तिरेव विशेषेण परामृ- ष्टेत्यथः ।” इति भाष्यम् ॥ दर्शनम् । यथा, ऋग्वेदे । ५ । ८० । ५ । “एषा शुद्रा न तन्वो विदानोर्द्ध्वेव स्नाती दृशये नो अस्थात् ॥” “दृशये दर्शनाय” इति तद्भाष्ये सायनः ॥”)
