दृष्टान्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृष्टान्तः, पुं, (दृष्टः अन्तो निश्चयो यस्मिन् ।) उदाहरणम् । (यथा, माघे । २ । ३१ । “तृप्तियोगः परेणापि महिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥”) शास्त्रम् । मरणम् । इति मेदिनी । ते, ११५ ॥ (अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ६९८ । “दृष्टान्तस्तु सधर्म्मस्य वस्तुनः प्रतिविम्बनम् ॥” सधर्म्मस्येति प्रतिवस्तूपमाव्यवच्छेदः । अयमपि साधर्म्म्यवैधर्म्याभ्यां द्विधा । क्रमेणोदाहरणं यथा, -- अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् । अनधिगतपरिमलापि हि हरति दृशं मालती- माला ॥”)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृष्टान्त पुं।
शास्त्रम्
समानार्थक:प्रमाण,दृष्टान्त,श्रुत,ग्रन्थ
3।3।62।2।2
विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ। व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥
वृत्तिवान् : शस्त्रघर्षणोपजीविः
: तर्कशास्त्रम्, अर्थशास्त्रम्, धर्मशास्त्रम्, विधानशास्त्रम्
पदार्थ-विभागः : , पौरुषेयः
दृष्टान्त पुं।
निदर्शनम्
समानार्थक:दृष्टान्त
3।3।62।2।2
विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ। व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥
पदार्थ-विभागः : , पौरुषेयः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृष्टान्त¦ पु॰ दृष्टोऽन्तः विषयपरिच्छेदोयत्र। गौ॰ सूत्रोक्तेषुषोडशसु पदार्थेषु मध्ये पदार्थभेदे तल्लक्षणं तत्रोक्तं यथा
“लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः” सू॰
“लोकसामान्यमनतीता लौकिका नैसर्गिकं वैनयिकं बु-द्ध्यतिशयमप्राप्तास्तद्विपरीताः परीक्षकास्तर्केण प्रमाणैरर्थपरीक्षितुमर्हन्तीति, यथा यमर्थं लौकिका बुध्यन्ते तथापरीक्षका अपि सोऽर्थो दृष्टान्तः। दृष्टान्तविरोधेन हिप्रतिषेद्धव्या भवन्तीति। दृष्टान्तसमाधिना च स्वपक्षाःस्थापनीया भवन्तीति तदुक्तावयवेषु चोदाहरणायकल्पत इति” वात्स्या॰ भा॰।
३ तत्रोक्तावयवमध्ये उदा-हरणे च तल्लक्षणं तत्रोक्तं तच्च उदाहरणशब्दे
११
६४ पृ॰ दर्शितम् अधिकमत्र तत्सूत्रभाष्यं प्रदर्श्यते यथा
“साध्यसाधर्म्यात् तद्धर्मभावो दृष्टान्त उदाहरणम्” गौ॰ सू॰
“साध्येन साघर्म्यं समानधर्मता साध्यसाधर्म्यात् कारणात्तद्धर्मभावो दृष्टान्त इति तस्य धर्म्मस्तद्धर्म्मः तस्यसाध्यस्य, साध्यञ्च द्विविधम् धर्म्मिविशिष्टो वा धर्म्मःशब्दस्यानित्यत्वम्। धर्म्मविशिष्टो वा धर्म्मी अनित्यःशब्द इति, इहोत्तरन्तद्ग्रहणेन गृह्यत इति कस्मात्?पृथग्धर्म्मवचनात्। तस्य धर्म्मस्तद्धर्म्मस्तस्य भावस्त-द्धर्म्मभावः स यस्मिन् दृष्टान्ते वर्त्तते स दृष्टान्तः साध्य-साधर्म्यात् तद्धर्म्मभावो भवति स चोदाहरणमिष्यते तत्रयदुत्पद्यते तदुत्पत्तिधर्म्मकम् यच्च भूत्वा न भवति आत्मानंजहाति निरुध्यत इत्यनित्यम्। एवमुत्पत्तिधर्म्मकत्वंसाधनमनित्यत्वं साध्यं सोऽयमेकस्मिन् द्वयोर्धर्म्मयोःसाध्यसाघनभावः साधर्म्याद्व्यवस्थित उपलभ्यते तं दृष्टान्तेउपलभमानः शब्देऽप्यनुमिनोति शब्दोऽप्युत्पत्तिधर्म-कत्वादनित्यः स्थाल्यादिवदित्युदाह्रियते तेन धर्मयोःसाध्यसाधनभाव इत्युदाहरणम्” भा॰
“तद्विपर्य्ययाद्वाविपरीतम्” गौ॰ सू॰
“दृष्टान्त उदाहरणमिति प्रकृतं, साध्य-वैधर्म्यात् तद्धर्मभावो दृष्टान्त उदाहरणमिति। अनित्यःशब्द उत्पत्तिधर्मकत्वात् यथा अनुत्पत्तिधर्मकं नित्यमात्मादिसोऽयमात्मादिदृष्टान्तः साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादत-द्धर्मभावो योऽसौ साध्यस्य धर्मोऽनित्यत्वं स तस्मिन् भव-तीति। अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्मकत्वस्याभावाद-नित्यत्वं न भवतीति उपलभमानः शब्दे विपर्य्य यमनुमि-नोति उत्पत्तिधर्मकत्वस्य भावादनित्यः शब्द इति साध-[Page3674-a+ 38] र्म्योक्तस्य हेतोः साध्यसाधर्म्यात् तद्धर्मभावो दृष्टान्त उदा-हरणम् वैधर्म्योक्तस्य हेतोः साध्यवैधर्म्यादतद्धर्मभावोदृष्टान्त उदाहरणम्। पूर्वस्मिन् दृष्टान्ते यौ तौ धर्मौसाध्यसाधनभूतौ पश्यति साध्येऽपि तयोः साध्यसाधन-भावमनुमिनोति। उत्तरस्मिन् दृष्टान्ते ययोर्धर्मयोरे-कस्याभावादितरस्याभावं पश्यति तयोरेकस्याभावादितर-स्याभावं साध्ये अनुमिनोतीति, तदेतद्धेत्वाभासेषु नसम्भवतीत्यहेतवी हेत्वाभासाः तदिदं हेतूदाहरणयोःसाधर्म्यं परमसूक्ष्मं दुःखबोधं पण्डितैरुपवेदनीयमिति” भाष्यम्। अन्यत्र च
“वादिप्रतिवादिनोः संप्रतिपत्ति-विषयोऽर्थो दृष्टान्तः। यथा पर्वतो वह्निमान् धूमात्महानसवदित्यादौ महानसो दृष्टान्तः। स द्विविधःसाधर्म्यदृष्टान्तः वैधर्म्यदृष्टान्तः। आद्यः पर्वते वह्निसा-धने धूमवत्त्वस्य हेतोर्महानसः। द्वितीयः तत्रैव धूम-वत्त्वस्य हेतोर्महाह्रदः।
३ अर्थालङ्कारभेदे अलङ्का-रशब्दे
३८
८ पृ॰ दृश्यम्
“दृष्टान्तोऽत्र महार्णवः” माघः
४ शास्त्रे
५ मरणे च मेदि॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृष्टान्त¦ m. (-न्तः)
1. A science, a Sa4stra.
2. An example, an illustration.
3. Death, dying. E. दृष्ट obvious or seen, and अन्त end.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृष्टान्त/ दृष्टा m. (n. only R. ii , 109 , 37 )" the end or aim of what is seen " , example , paragon , standard , allegory , type MBh. R. etc.
दृष्टान्त/ दृष्टा m. instance , exemplification( rhet. )
दृष्टान्त/ दृष्टा m. a शास्त्रL.
दृष्टान्त/ दृष्टा m. a partic. high number L.
दृष्टान्त/ दृष्टा m. death L. (See. दिष्ट्)
