दृष्टिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृष्टिः, स्त्री, (पश्यत्यनेनेति । दृश् + करणे क्तिन् ।) चक्षुः । इत्यमरः । २ । ६ । ९३ ॥ (यथा, साहित्य- दर्पणे । ३ । ६८ । “दृष्टा दृष्टिमधोददाति कुरुते नालापमाभा- षिता ॥”) बुद्धिः । (दृश् + भावे + क्तिन् ।) दर्शनम् । इति मेदिनी । टे, १० ॥ (यथा, मनुः । ६ । ४६ । “दृष्टिपूतं क्षिपेत् पादं वस्त्रपूतं जलं पिबेत् ॥”) ग्रहाणां दृष्टिकथनम् । यथा, तृतीयगृहे दशमगृहे च शनेः पूर्णदृष्टिरन्येषां पाददृष्टिः । पञ्चमगृहे नवमगृहे च गुरोः पूर्ण- दृष्टिरन्येषामर्द्धदृष्टिः । चतुर्थगृहे अष्टमगृहे च कुजस्य पूर्णदृष्टिरन्येषां त्रिपाददृष्टिः । सप्तम- गृहे सर्व्वेषां पूर्णदृष्टिः । पञ्चमगृहे सप्तमे नवमे द्वादशे च राहोः पूर्णदृष्टिः । द्वितीये दशमे च त्रिपाददृष्टिः । तृतीये षष्ठे चतुर्थे अष्टमे चार्द्ध- दृष्टिः ॥ * ॥ ग्रहाणां दृष्ट्यभावनिर्णयो यथा, -- स्थितिभवने एकादशे च राहोर्दृष्ट्यभावः । स्थितिभवने द्बितीये षष्ठे एकादशे द्बादशे चान्येषां दृष्ट्यभावः ॥ * ॥ एषां प्रमाणं यथा, -- “तृतीये दशमे चैव पाददृष्टिरुदाहृता । अर्द्धदृष्टिश्च नवमे पञ्चमे च प्रकीर्त्तिता ॥ चतुर्थे चाष्टमे चैव पादोना परिकीर्त्तिता । सप्तमे परिपूर्णा च फलमेवं प्रकल्प्यते ॥ तृतीयदशमावार्किः पश्यन् पूर्णफलप्रदः । त्रिकोणगान् गुरुश्चैव चतुर्थाष्टमगान् कुजः ॥ सुतमदननवान्त्ये पूर्णदृष्टिः सुरारे- र्युगलदशमराशौ दृष्टिमात्रात्रयार्हः । सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः स्थितिभवनमुपान्त्यं नैव दृश्यं हि राहोः ॥ स्वस्थानञ्च द्बितीयञ्च षष्ठमेकादशन्तथा । द्वादशाख्यं न पश्यन्ति शेषं पश्यन्ति ते ग्रहाः ॥” इति ज्योतिषतत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दृष्टिः [dṛṣṭiḥ], f. [दृश्-भावे-क्तिन्]
Seeing, viewing.
Seeing with the mental eye.
Knowing, knowledge; सम्यग्- दृष्टिस्तस्य परं पश्यति यस्त्वाम् Ki.18.28.
The eye, the faculty of seeing, sight; केनेदानीं दृष्टिं विलोभयामि V.2; चलापाङ्गं दृष्टिं स्पृशसि &Sacute.1.23.; दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा U.6.19; R.2.28; Ś.4.2; देव दृष्टिप्रसादं कुरु H.1.
A look, glance.
View, notion; क्षुद्रदृष्टिरेषा K.173; एतां दृष्टिमवष्टभ्य Bg. 16.9.
Consideration, regard.
Intellect, wisdom; तुभ्यं नमस्ते$स्त्वविषक्तदृष्टये Bhāg.1.4.12.
(In Astrol.) Aspect of the stars.
Light (प्रकाश).
A theory, doctrine, notion; याश्च काश्च कृदृष्टयः (सर्वास्ता निष्फलाः) Ms. 12.95. -Comp. -कृत् n., -कृतम् a kind of lily (स्थलपद्म). -क्षम worth-seeing; V.4.21. -क्षेपः a glance, look.-गतम् a theory, doctrine. -गुणः a mark for archers, butt, target. -गोचर a. within the range of sight, in sight, visible. (-रः) the range of sight. -दानम् appearance. -दोषः the evil influence of the human eye.
पातः a look, glance; मार्गे मृगप्रेक्षिणि दृष्टिपातं कुरुष्व R.13.18; Bh.1.11,94;3.66.
act of seeing, function of the eye; रजःकणैर्विघ्नितदृष्टिपाताः Ku.3.31 (Malli. interprets unnecessarily in our opinion पात by प्रभा). -पथः the range of sight. -पूत a. 'kept pure by the sight', watched that no impurity is contracted; दृष्टिपूतं न्यसेत्पादम् Ms.6.46. -प्रसादः the favour of a look. -बन्धुः a firefly.
मण्डलम् the pupil of the eye.
the circle of sight. -रागः the expression of the eyes; भवन्तमन्तरेण कीदृशो$स्या दृष्टिरागः Ś.2.11-12.
वादः a Buddhist canon dealing with discussion on other religious views; दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया । प्रतिकर्मसूत्रपूर्वानुयोगो पूर्व- गतचूलिकाः । पञ्च स्युर्द्दष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते । Hem.
N. of the 12th Aṅga of the Jainas. -विक्षेपः a side-glance, leer, oblique look. -विद्या optics. -विभ्रमः an amorous glance, a coquettish look; Ś.1.23. -विषः a serpent. -संभेदः mutual glance; त्वयापि न निरूपिता अनयोर्द्दष्टिसंभेदाः Māl.7.
