देवखातकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवखातकम्, क्ली, पुं, (देवखातमेव । स्वार्थे कन् ।) अकृत्रिमजलाशयः । अपौरुषेयं देवकुण्ड- मित्यन्ये । इति सुभूतिः ॥ नागादिकुण्डमकृत्रिम- मिति स्वामी ॥ तत्पर्य्यायः । आखातम् २ । इति भरतः ॥ अखातम् । इत्यमरः । १ । १० । २७ ॥ दैवविनिर्म्मितम् ४ । इति शब्दरत्नावली ॥ गुहा । इत्यमरटीकायां भरतः ॥
