सामग्री पर जाएँ

देवगणग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवगणग्रह¦ पु॰ सुश्रुतोक्ते देवादिगणरूपे ग्रहे देवानाञ्चशुद्धस्वभावत्वात् ग्रहत्वासम्भवमाशङ्क्य। तद्गणाना मेवग्रहत्वं च तत्रोक्तं यथा(
“गुह्यानागतविज्ञानमनवस्था सहिष्णुता। क्रिया वा-ऽमानुषी यस्मिन् स ग्रहः परिकीर्त्त्यते। अशुचिं भिन्नमर्य्यादं क्षतं वा यदि वाऽक्षतम्। हिस्युर्हिंसाविहा-रार्थं सत्कारार्थमथापि च। असंख्येया ग्रहगणा ग्र-हाधिपतयस्तु ये। व्यज्यन्ते विविधाकारा भिद्यन्ते तेतथाष्टधा। देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाःपितरो भुजङ्गाः। रक्षांसि या चापि पिशाचजातिरेषोऽष्टधा देवगणग्रहाख्यः। सन्तुष्टः शुचिरपि चेष्ट-गन्धमाल्यो निस्तन्द्रो ह्यवितथसंस्कृतप्रमाषी। तेजस्वी-स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति च यः स देव-जुष्टः। संस्वेदी द्विजगुरुदेवदीषवक्ता जिह्माक्षो विगत-भयो विमार्गदृष्टिः। सन्तुष्टो भवति न चान्नपानजातै-र्दुष्टात्मा भवति च देवशत्रुजुष्टः। हृष्टात्मा पुलिनवना-न्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः। नृत्यन्वा प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितोमनुष्यः। ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो-द्रुतगतिरल्पवाक् सहिष्णुः। तेजस्वी वदति च किं ददामि कस्मै यो यक्षप्रहपरिपीडितो मनुष्यः। प्रेतेभ्योविसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चाप-सव्यवस्त्रः। मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भ-वति पितृग्रहाभिभूतः। भूमौ यः प्रसरति सर्पवत्कदा-चित् सृक्कण्यौ विलिहति जिह्वया प्रसक्तम्। निद्रालु-र्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः। मांसासृग्विविधसुराविकारलिप्सुर्निल्लज्जो भृशमतिनि-ष्ठुरोऽतिशूरः। क्रोधालुर्विपुलबलो निशाविहारीशौचद्विड्भवति च रक्षसा गृहीतः। उद्धस्तः कृशप-रुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथातिलोलः। ब-ह्वाशी विजनहिमाम्बुरात्रिसेवी व्याचेष्टं भ्रमति रुदन्पिशाचजुष्टः। स्थूलाक्षस्त्वरितगतिः स्वफेनलेही नि-द्रालुः पतति च कम्पते च योऽति। यश्चाद्रिद्विरदनगा-[Page3677-b+ 38] दिविच्युतःसन् संसृष्टो न भवति वार्द्धकेन जुष्टः। देव-ग्रहाः पौर्णमास्यामासुराः सन्ध्ययोरपि। गन्धर्वः प्राय-शोऽष्टम्यां यक्षाश्च प्रतिपद्यथ। कृष्णपक्षे च पितरःपञ्चम्यामपि चोरगाः। रक्षांसि निशि पैशाचाश्चतुर्दश्यांविशन्ति च। दर्पणादीन् यथा छाया शीतोष्णं प्रा-णिनो यथा। स्वमणिंभास्करार्चिश्च यथा देहं च देहि-नः। विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम्। तपांसि तीव्राणि तथैव दानव्रतानि धर्मो नियमश्चसत्यम्। गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताच्चयथाप्रभावम्। न ते मनुष्यैः सह संविशन्ति नवा म-नुष्यान् क्वचिदाविशन्ति। ये वाविशन्तीति वदन्ति मो-हात्ते भूतविद्याविषयादपोह्याः। तेषां ग्रहाणां परि-चारका ये कोटीसहस्रायुतपद्मसंख्याः। असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति। निशा-चराणां तेषां हि ये देवगणसंसृताः। ते तु तत्सत्वसंस-र्गाद्विज्ञेयास्तु तदञ्जनाः। देवग्रहा इति पुनः प्रोच्यन्तेशुचयश्च ये। देववत् ते नमस्यन्ते प्रत्यर्थन्ते च देववत्”।

"https://sa.wiktionary.org/w/index.php?title=देवगणग्रह&oldid=307188" इत्यस्माद् प्रतिप्राप्तम्