देवचक्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवचक्र¦ न॰ सत्राङ्गे
१ अभिप्लवभेदे
“परि यद्वा एतद्देवचक्रंयदभिप्लवः” ऐत॰ व्रा॰
४ ।
१५
“देवचक्रे वा एते पृष्ठ्य-प्रतिष्ठिते। यजमानस्य पाप्मानं तृं हतो परिप्लवेतेस यो हैवं विदुषां दीक्षितानां पापकं सत्रे कीर्तय-त्येते हास्य देवचक्रे शिरश्छिन्नो दशरात्र उद्धिः पृष्ठ्या-भिप्लवौ चक्रे” शत॰ व्रा॰
१२ ।
२ ।
२ ।
२ यामलोक्ते देवता-भेदोपास्यताज्ञापके
२ चक्रभेदे यथा(
“पूर्वपश्चिमभेदेन षष्ठरेखां समालिखेत्। वामादिदक्षिणान्तञ्च रेखा दश समालिखेत्। पञ्चगेहे पूरकाङ्कःसर्वाधोहारकाङ्ककान्। तन्मध्ये रचयेदङ्कं देवतागृह-संयुतम्। पूरकाङ्कमाद्यगेहे सप्तर्षियुतमालिखेत्। तद्द-क्षिणे द्वादशञ्च दक्षे च नवमन्तथा। तद्दक्षेऽष्टादशकंतद्दक्षे षोडशकं ततः। पूरकाङ्कं तले लेख्य इन्द्राद्यङ्कस्यदक्षतः। इन्द्रगेहे च शतकं विधिविद्याफलप्रदम्। धर्मगेहे शून्यसप्तयुगलं विलिखेत् बुधः। अनन्तमन्दिरेनाथ! शून्याष्टवसुरेव च। कालीगृहे शून्यवेदरामाङ्कंविलिखेत्ततः। धूमावतीमन्दिरे च शून्यखेषुनिशापतीन्। इन्द्राधो दक्षतो लेख्या अङ्काश्चन्द्राधिदेवता। शून्यषष्ठच-न्द्रयुक्तं सर्वत्र दक्षतो लिखेत्। तथाश्विनीकुमारौ चशून्यान् नयुगमेरुकौ। तत्पश्चात् सूर्यगेहे च सहस्राक्षसमन्वितम्। तारिणीमन्दिरस्थाङ्कं शून्यवेदपडात्म-क्रम्। वगलामुखीगेहस्थं शून्याष्टचन्द्रसंयुतम्। [Page3681-b+ 38] ततश्चन्द्रगृहस्याधो वायुगेहं मनोरमम्। रन्घ्रवेदात्मकंगेहं सर्वसिद्धिप्रदायकम्। राहुगेहं महापापं शून्यशून्यमणिप्रियम्। पश्चादर्कगृहस्थञ्च खशून्ययुगला-त्मकम्। षोडशीमन्दिरे शून्यषष्ठचन्द्रसमाहितम्। मातङ्गीमन्दिरे शून्यरन्ध्रचन्द्रसमन्वितम्। वायोरधोव-रुणस्य गृहं सप्तशशिप्रियम्। तारिणीगेहमध्ये चशून्याष्टकसमन्वितम्। बुधगेहस्थिताङ्कञ्च शून्यचन्द्रयुगात्मकम्। भुवनेशीमन्दिरस्थं शून्याष्टचन्द्रमण्ड-लम्। प्रत्यङ्गिरामन्दिरस्थं शून्यषष्ठशशिप्रियम्। वरुणाधः कुवेरस्य गृहस्थं षष्ठयुम्मकम्। आनन्दभै-रवीगेहे दशकं परिकीर्तितम्। धरणीगृहमध्ये चशून्ययुग्मेन्दुसंयुतम्। भैरवीगृहमध्यस्थं शून्यं यु-गलचन्द्रकम्। बालागृहस्थं शून्यर्षिचन्द्रमण्डलसंयु-तम्। कुवेराधः सुखं चक्रस्थिताङ्कं सर्वसिद्धिदम्। ईश्व-रस्य गृहस्थञ्च सप्तशून्ययुगात्मकम्। तिरस्करिण्यागेहस्थं सहस्राङ्कसमन्वितम्। किङ्किणीमन्दिरं पश्चा-दष्टचन्द्रसमन्वितम्। छिन्नमस्तागृहं पश्चात् शून्याष्टचन्द्रमण्डलम्। वागीश्वरीगृहं पश्चात् खसप्तचन्द्रमण्ड-लम्। महाफलप्रदातारं धर्मं क्षरति तस्य न। ईश्व-रस्य ह्यधोगेहे वटुकस्य गृहं ततः। शून्याष्टमाद्यं स्व-गृहं धर्मार्थकाममोक्षदम्। तत्पश्चात् डाकिनीगेहं खशून्यमुनिसंयुतम्। हन्ति साधकमुख्यं हि क्षणादेव न संशयः। स्वगृहे स्वीयमन्त्रस्य फलदं परिकीर्तितम्। भीमादेवीगृहं पश्चात् खसप्तचन्द्रमण्डलम्। भयदं सर्वदेशे तुवर्जयेत्तु गृहान्तरम्। लक्षवर्णं लिखेत् शेषगृहयोःपण्डितोत्तमः। इन्द्रगेहावधि धीरो ककारादिकवर्ण-कम्। क्षकारान्तं लिखेत् तत्र गणयेत् साधकोऽन्ततः। पूरकाङ्कमूर्द्ध्वदेशे हारकाङ्कमधोलिखेत्। निजनामा-क्षरं यत्र तत्कोष्ठाङ्कं महेश्वर!। नीत्वा च पूरयेद्वि-द्वान् स्वस्वगेहोर्द्ध्वदेशकैः। अङ्कैस्ततो हरेन्नाथ! अधोऽ-ङ्के हार्यशेषकम्। विस्तारश्चेद्देवतानां तदङ्कः शुभदःस्मृतः। अल्पस्त्वशुभदः प्रोक्तः साधकस्यासुखावहः। एकाक्षरे महासौख्यं तत्रापि गणयेन्न च। स्वीयाङ्कःशून्यगामी च देवताङ्कं ततः प्रभो!। तदा नैव शुभं वि-द्यादशुभाय प्रकल्प्यते। एके धनमवाप्नोति द्वितीये राज-वल्लभः। तृतीये जप्यसिद्धिः स्यात् चतुर्थे मरणं ध्रुवम्। पञ्चमे पञ्चवाणः स्यात् षष्ठे दुःखोत्कटानि च। देवानांशक्तिवर्गाणामित्यङ्काः परिकीतिताः। वैष्णवानां विशेषो-[Page3682-a+ 38] ऽत्र पञ्चमाङ्को निषेधकः। येषां यासां देवतानामिच्छातिष्ठति चेतसि। तन्मन्त्रग्रहणादेव अष्टैश्वर्ययुतो भवेत्। यद्देवताश्रिताये तु तद्गृहाङ्कं हरन्ति ते। ऊर्द्ध्वाङ्केनपूरयित्वाह्यधोङ्केन हरेत् सदा”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवचक्र/ देव--चक्र n. a -ddivine wheel Br.
देवचक्र/ देव--चक्र n. (with शाक्तs) " the holy circle " , N. of a mystical diagram RTL. 196.
