देवच्छन्दः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवच्छन्दः, पुं, (देवैश्छन्द्यते आकाङ्क्ष्यते इति । छन्द + घञ् ।) हारविशेषः । स शतयष्टिकः । इत्यमरः । २ । ६ । १०५ ॥ अष्टोत्तरशत- यष्टिकोऽयमिति केचित् । इति भरतः ॥ (यथा, बृहत्संहितायाम् । ८१ । ३२ । “शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिरेकयुता । अष्टाष्टकोऽर्द्धहारो रश्मिकलापश्च नवषट्कः ॥”)
