देवताडः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवताडः, पुं, (देवो दीप्तस्ताल इति । लस्य डः ।) वृक्षविशेषः । देताडा इति ख्यातः । तत्- पर्य्यायः । वेणी २ खरा ३ गरी ४ जीमूतः ५ । इत्यमरः । २ । ४ । ६९ ॥ अगरी ६ खरागरी ७ गरागरी ८ । इति तट्टीकायां भरतः ॥ देव- ताडी ९ आखुविषहा १० । इति जटाधरः ॥ आखुः ११ विषजिह्वः १२ महाच्छदः १३ कदम्बः १४ खुज्जाकः १५ देवताडकः १६ । इति रत्नमाला ॥ (देवौ चन्द्रार्कौ ताडयतीति । ताडि + कर्म्मणि अण्।) राहुः । अग्निः । इति मेदिनी । डे, ३९ ॥ घोषकलता । इति विश्वः ॥
