देवदत्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवदत्तः, पुं, बुद्धानुजः । इति त्रिकाण्डशेषः । अर्ज्जनशङ्खः । (यथा, महाभारते । ६ । २४ । १५ । “पाञ्चजन्यं हृषीकेशो देवदत्तं घनञ्जयः । पौण्ड्रं दघ्मौ महाशङ्खं भीमकर्म्मा वृकोदरः ॥”) शरीरवाह्यपञ्चवाय्वन्तर्गतवायुविशेषः । इति शब्दार्थकल्पतरुः ॥ विजृम्भणे देवदत्तः शुद्ध- स्फटिकसन्निभः । इति सारदातिलकटीका ॥ (देवा एनं देयासुरिति । “क्तिच्क्तौ च संज्ञा- याम् ।” ३ । ३ । १७४ । इति आशिषि क्तः । “दो दद्धोः ।” ७ । ४ । ४६ । इति ददादेशश्च ।) संज्ञाविशेषः । यथा, देवदत्तादिसंज्ञाशब्दस्य सर्व्वलिङ्गभाजित्वाभावात् जातित्वमायाति । इति दुर्गादासः ॥ (नागभेदः । यथा, भाग- वते । ५ । २४ । ३१ । “ततोऽधस्तात् पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिक- महाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्व- तरदेवदत्तादयो महाभोगिनो महामर्षाः निवसन्ति ॥” देवेन दत्ते, त्रि । यथा, “अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः । असिनासाधुदमनमष्टैश्वर्य्यगुणान्वितः ॥” इति कल्किपुराणेऽनुभागवते भविष्ये कल्कि- जन्मोपनयने २ अध्यायः ॥)
