देवदारु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवदारु, क्ली, (देवानां दारु । तेषां प्रियत्वात् ।) वृक्षविशेषः । (यथा, महाभारते । ३ । १७८ । १० । “वनानि देवदारूणां मेघानामिव वागुराः ॥”) तत्पर्य्यायः । शक्रपादपः २ परिभद्रकः ३ भद्र- दारु ४ द्रुकिलिमम् ५ पीतदारु ६ दारु ७ पूतिकाष्ठम् ८ । इत्यमरः । २ । ४ । ५४ ॥ सुर- दारु ९ दारुकम् १० स्निग्धदारु ११ अमरदारु १२ शिवदारु १३ शाम्भवम् १४ भूतहारि १५ भवदारु १६ भद्रवत् १७ इन्द्रदारु १८ मस्तदारु १९ सुरभूरुहः २० । इति भावप्रकाशः ॥ सुराह्वम् २१ देवकाष्ठम् २२ । इति रत्नमाला ॥ अस्य गुणाः । तिक्तत्वम् । रूक्षत्वम् । श्लेष्मानिलभूत- दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ लघुत्वम् । स्निग्धत्वम् । उष्णत्वम् । कटुपाकित्वम् । विब- न्घाध्मानशोथामतन्द्राहिक्काज्वरास्रप्रमेहपीनस- श्लेष्मश्वासकासकण्डूसमीरनाशित्वञ्च । इति भाव- प्रकाशः ॥ तस्य लेपनगुणः । कान्तिदत्वम् । आमदोषविबन्धार्शःप्रमेहज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ ज्वररूक्षतालक्ष्मीरक्षोविघ्न- नाशित्वन् । इति राजवल्लभः ॥

देवदारुः, पुं, (देवप्रियं दारु यत्र ।) स्वनामख्यात- वृक्षः । स च पार्व्वतीप्रियः । यथा, -- “अमुं पुरः पश्यसि देवदारुं पुत्त्रीकृतोऽयं वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥” इति रघौ । २ । ३६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवदारु पुं-नपुं।

देवदारुवृक्षः

समानार्थक:शक्रपादप,पारिभद्रक,भद्रदारु,द्रुकिलिम,पीतदारु,दारु,पूतिकाष्ठ,देवदारु

2।4।54।1।2

पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः। पाटलिः पाटला मोघा काचस्थाली फलेरुहा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवदारु¦ न॰ देवानां दारु तत्प्रियं काष्ठं चन्दनमस्य। स्व-नामख्याते वृक्षभेदे अमरः। अस्य पुंस्त्वमपि
“अमुं पुरःपश्यसि देवदारुम्” रघुः
“पारिजातान् कोविदारान्देवदारुद्रुमांस्तथा” भा॰ व॰

१५

८ अ॰।
“वाढा मुहुःकम्पितदेवदारुः” कुमा॰
“देवदारु लघु स्निग्धं तिक्तोष्णंकटुपाकि च। विबन्धाध्मानशोथामतन्द्राहिक्काज्वरास्र-जित्। प्रमेहपीनसश्लेष्मश्वासकण्डूसमीरनुत्” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवदारु¦ mn. (-रुः-रु) A species of pine, (Pinus devadaru;) in Bengal it is usually applied to the Uvaria longifolia, and in the Peninsula to another tree, (Erythroxylon sideroxylloides.) E. देव a deity, and दारु timber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवदारु/ देव--दारु mn. Pinus देवदारुor Deodar (also Avaria Longifolia and Erythrosylon Sideroxyloides) MBh. Ka1v. Pur. etc.

"https://sa.wiktionary.org/w/index.php?title=देवदारु&oldid=307961" इत्यस्माद् प्रतिप्राप्तम्