सामग्री पर जाएँ

देवदाली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवदाली, स्त्री, (देवेन मेघोदयेन दालो दलनं यस्याः । गौरादित्वात् ङीष् ।) लताविशेषः । घघरवेल इति सोनैया इति च हिन्दीभाषा । खखसावत्पुष्पवृन्ता । (यथा, सुश्रुते, सूत्रस्थाने । ४९ अध्याये । “कोशातकी सप्तला शङ्खिनी देवदालीकार- वेल्लिका चेत्युभयतो भागहराणि ॥”) तत्पर्य्यायः । जीमूतकः २ कण्टफला ३ गरा ४ गरी ५ वेणी ६ महाकोषफला ७ कट्फला ८ घोरा ९ कदम्बी १० विषहा ११ कर्कटी १२ सारमूषिका १३ वृन्तकोषा १४ आखुविषहा १५ दाली १६ रोमशपत्रिका १७ कुरङ्गिका १८ सुतर्कारी १९ देवताडः २० ॥ अस्या गुणाः । तिक्तत्वम् । उष्णत्वम् । कटुत्वम् । पाण्डुकफ- दुर्नामश्वासकासकामलाभूतनाशित्वञ्च । तस्याः फलस्य गुणाः । तिक्तत्वम् । कृमिश्लेष्मगुल्मशूला- र्शोवातनाशित्वम् । स्रंसनत्वञ्च । “पीता गरा खरस्पर्शा विषघ्नी गरनाशिनी ॥” इति राजनिर्घण्टः ॥ तन्नामगुणाः । यथा, भावप्रकाशे । “देवदाली तु वेणी स्यात् कर्कटी च गरागरी । देवताडो वृन्तकोशस्तथा जीमूत इत्यपि ॥ पीतापरा खरस्पर्शा विषघ्नी गरनाशिनी । देवदाली रसे तिक्ता कफार्शःशोथपाण्डुताः ॥ नाशयेद्वामनी तिक्ता क्षयहिक्काकृमिज्वरान् । देवदालीफलं तिक्तं कृमिश्लेष्मविनाशनम् ॥ संसनं गुल्मशूलघ्नमर्शोघ्नं वातजित् परम् ॥”

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवदाली¦ स्त्री देवेन मेघशब्देन दालोदलनमस्या गौरा॰ङीष्। (घघरवेल) ख्याते लताभेदे
“देवदाली रसेतिक्ता कफार्शःशोफपाण्डुताः। नाशयेद् वमनी तिक्ताक्षयहिक्काकृमिज्वरान्। शीता परा खरस्पर्शा विषघ्नीगरनाशनी” भावप्र॰। देवदालीफलं तिक्तं कृमिश्लेष्मविनाशनम्। स्रंसनं गुल्मशूलघ्नमर्शोघ्नं बातजित्परम्। देवदालीदलं तक्रे स्वेदितं खण्डितं भृशम्। वेसवारयुते साज्ये भर्जितं हिङ्गुना दृढम्” तत्रैव।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवदाली/ देव-- f. a kind of pumpkin Sus3r. Bhpr.

"https://sa.wiktionary.org/w/index.php?title=देवदाली&oldid=307980" इत्यस्माद् प्रतिप्राप्तम्