देवनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवनम्, क्ली, (दिव् + भावे ल्युट् ।) व्यवहारः । जिगीषा । क्रीडा । इति मेदिनी । ने, ७६ ॥ (दीव्यति अस्मिन्निति अधिकरणे ल्युट् ।) लीलो- द्यानम् । इति त्रिकाण्डशेषः ॥ (दीव्यति अने- नेति । दिव + करणे ल्युट् ।) पद्मम् । इति शब्दचन्द्रिका ॥ परिदेवनम् । इत्यमरटीकायां भरतः ॥ द्युतिः । स्तुतिः । कान्तिः । गतिः । शोकः । इत्यमरटीकायां मथुरेशः ॥ द्यूतम् । इति स्वामी ॥ (यथा, मनौ । ९ । २२२ । “प्रकाशमेतत् तास्कर्य्यं यद्देवनसमाह्वयौ । तयोर्नित्यं प्रतिघाते नृपतिर्यत्नवान् भवेत् ॥”)
