देवयज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवयज्ञः, पुं, (देवानां यज्ञः ।) होमः । इति हेम- चन्द्रः । ३ । ४८५ ॥ (यथा, मनुः । ४ । २१ । “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्व्वदा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवयज्ञ¦ पु॰

६ त॰। देवानां यज्ञे पञ्चयज्ञान्तर्गते होमरूपेगृहस्थनित्यकर्त्तव्येयज्ञभेदे।
“अथातः पञ्च यज्ञाः” देवयज्ञोभूतयज्ञः पितृयज्ञो ब्रह्मयज्ञो मनुष्ययज्ञ” इति।
“तद्यदग्नौ जुहोति स देवयज्ञो यद्वलिङ्करोति स भूत-यज्ञो यत् पितृभ्यो ददाति स पितृयज्ञो यत् स्वाध्यायमधीयते स ब्रह्मयज्ञो यन्मनुष्येभ्यो ददाति स मनुष्य-यज्ञ इति” आश्वा॰ गृ॰ सू॰

३ ।

१ ,

२ ,

३ ,
“अध्यापनं[Page3739-b+ 38] व्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्। होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम्। पञ्चैतान् यो महायज्ञान् नहापयति शक्तितः। स गृहेऽपि वसन्नित्यं शूनादोषैर्नलिप्यते” मनुः। तत्र होमस्य देवता मनुनोक्ता यथा
“आभ्यः कुर्य्याद्देवताभ्यो ब्राह्मणो होममन्वहम्। अग्नेः सोमंस्य चैवादौ तयोश्चैव समस्तयोः। विश्वेभ्य-श्चैव देवेभ्यो धन्वन्तरय एव च। कुह्वै चैवानुमत्यै चप्रजापतयएव च। सह द्यावापृथिव्योश्च तथा स्विष्ट-कृतेऽन्ततः”।
“तत्र च यज्ञशब्दो महच्छब्दश्च गौणः” इति कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवयज्ञ¦ m. (-ज्ञः) The Ho4ma or burnt sacrifice. E. देव, and यज्ञ sacrifice; the sacrifice appropriated to the gods.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवयज्ञ/ देव--यज्ञ m. sacrifice to the gods ( esp. the होमor burnt -ssacrifice , one of the 5 great oblations) S3Br. A1s3vGr2. ? Mn.

देवयज्ञ/ देव--यज्ञ m. N. of a man(See. दैव-यज्ञि).

"https://sa.wiktionary.org/w/index.php?title=देवयज्ञ&oldid=500344" इत्यस्माद् प्रतिप्राप्तम्