देवयानम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवयानम्, क्ली, (देवानां यानम् ।) देवविमानम् । देवरथः । इति शब्दार्थकल्पतरुः ॥ (त्रि, देव- प्रापनीयम् । यथा, ऋग्वेदे । १ । १६२ । ४ । “यद्धविष्यमृतुशो देवयानं त्रिर्मानुषा पर्य्यश्वं नयन्ति ॥” देवप्रापकम् । यथा, तत्रैव । ७ । ७६ । २ । “प्र मे पन्था देवयाना अदृश्र- न्नमर्द्धन्तो वसुभिरिष्कृतासः ॥”)
