देवयोनि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवयोनिः, पुं, स्त्री, देव एव योनिर्निदानभूतो यस्य सः । तद्यथा, विद्याधराः १ अप्सरसः २ यक्षाः ३ राक्षसाः ४ गन्धर्व्वाः ५ किन्नराः ६ पिशाचाः ७ गुह्यकाः ८ सिद्धाः ९ भूतगणः १० । इत्य- मरः । १ । १ । ११ ॥ (देवानां योनिः । देव- स्थानम् । यथा, महाभारते । ३ । ११४ । २८ । “अन्यथा हि कुरुश्रेष्ठ ! देवयोनिरपांपतिः । कुशाग्रेणापि कौन्तेय ! न प्रष्टव्यो महोदधिः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवयोनि¦ पु॰ देवानामिव कामिचारित्वात् योनिः यस्य।
१ विद्याधरादौ ते च अमरोक्ता यथा
“विद्याधरोऽप्सरोयक्षोरक्षोगन्धर्वकिन्नराः। पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः”।
३ देवजातौ स्त्री
“द्वे बै योनी इति ब्रू-यात् देवयोनिरन्यो मनुष्ययोनिरन्यः” शत॰ ब्रा॰
७ ।
४ ।
२ ।
१०
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवयोनि¦ m. (-निः) A superhuman being, a demon or demigod. E. देव a deity, and योनि place of production.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवयोनि/ देव--योनि mf. place or origin of a god , a -ddivine birth-place Br.
देवयोनि/ देव--योनि mf. the sacred wood used for kindling fire Gr2ihya1s. i , 81 etc.
देवयोनि/ देव--योनि mfn. of -ddivine origin
देवयोनि/ देव--योनि m. a demi-god or demon Devi1m. v , 60.