देवयोनिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवयोनिः, पुं, स्त्री, देव एव योनिर्निदानभूतो यस्य सः । तद्यथा, विद्याधराः १ अप्सरसः २ यक्षाः ३ राक्षसाः ४ गन्धर्व्वाः ५ किन्नराः ६ पिशाचाः ७ गुह्यकाः ८ सिद्धाः ९ भूतगणः १० । इत्य- मरः । १ । १ । ११ ॥ (देवानां योनिः । देव- स्थानम् । यथा, महाभारते । ३ । ११४ । २८ । “अन्यथा हि कुरुश्रेष्ठ ! देवयोनिरपांपतिः । कुशाग्रेणापि कौन्तेय ! न प्रष्टव्यो महोदधिः ॥”)
