सामग्री पर जाएँ

देवराजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवराजः, पुं, (देवानां राजा । “राजाहःसखि- भ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) इन्द्रः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ । ८६ । ७ । “देवराजसमो ह्यासीत् ययातिः पृथिवीपतिः ॥”) तस्य नामानि यथा, -- “इन्द्रः सुरपतिः शक्रो दितिजः पवनाग्रजः । सहस्राक्षो भगाङ्कश्च कश्यपाङ्गज एव च ॥ विडोजाश्च सुनासीरो मरुत्वान् पाकशासनः । जयन्तजनकः श्रीमान् शचीशो दैत्यसूदनः ॥ वज्रहस्तः कामसखा गौतमीव्रतनाशनः । वृत्रहा वासवश्चैव दधीचिदेहभिक्षुकः ॥ जिष्णुश्च वामनभ्राता पुरुहूतः पुरन्दरः । दिवस्पतिः शतमखः सूत्रामा गोत्रजिद्विभुः ॥ लेखर्षभो बलारातिर्जम्भभेदी सुराश्रयः । संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ॥ आखण्डलो हरिहयो नमुचिप्राणनाशनः । वृद्धश्रवा वृषश्चैव दैत्यदर्पनिसूदनः ॥ षट्चत्वारिंशन्नामानि पापघ्नानि विनिश्चितम् ॥” इति ब्रह्मवैवर्त्ते जन्मखण्डम् ॥

"https://sa.wiktionary.org/w/index.php?title=देवराजः&oldid=141251" इत्यस्माद् प्रतिप्राप्तम्