देवर्षिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवर्षिः, पुं, (देव ऋषिश्च । देवानां ऋषिर्वा ।) सुरर्षिः । तद्यथा । नारदः १ अत्रिः २ मरीचिः ३ भरद्वाजः ४ पुलस्त्यः ५ पुलहः ६ क्रतुः ७ भृगुः ८ वशिष्ठः ९ प्रचेताः १० । इत्यमरटीका- सारसुन्दरी ॥ (यथा, महाभारते । १२ । २१० । २१ । “देवर्षिचरितं गार्म्यः कृष्णात्रेयश्चिकित्सितम् ॥” तुम्बुरुभरतादिः । इति तट्टीकायां भरतः ॥ कणादादिः । इति त्रिकाण्डशेषः ॥ (महादेवः । यथा, महाभारते । १३ । १७ । १४४ । “देवादिदेवो देवर्षिर्देवासुरवरप्रदः ॥”)
