देवलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवलः, पुं, (देवं लाति गृह्णाति निजजीविकार्थ- मिति । देव + ला आदाने + “आतोऽनुपेति ।” ३ । २ । ३ । इति कः ।) देवाजीवः । जीविकार्थं यो देवान् गृहीतवान् । इत्यमरः । २ । १० । ११ ॥ पूजारि वामन इति भाषा ॥ देवोपजीवजीवी । यथा, -- “देवोपजीवजीवी च देवलश्च प्रकीर्त्तितः ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥ “चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा । विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥” इति मनुः । ३ । १५१ ॥ “देवलः प्रतिमापरिचारकः वर्त्तनार्थत्वेनैतत् कर्म्म कुर्व्वतोऽयं निषेधः न तु धर्म्मार्थम् । देवको- षोपजीवी च नाम्ना देवलोको भवेदिति देवल- वचनात् ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ (दीव्यति आनन्देनेति । दिव + “वृषादिभ्य- श्चित् ।” उणां १ । १०८ । इति कलच् ।) धार्म्मिकः । इत्युणादिकोषः ॥ नारदमुनिः । इति त्रिकाण्डशेषः ॥ (रलयोरैक्यात् ।) देवरः । इति शब्दरत्नावली ॥ धर्म्मशास्त्रवक्ता मुनि- विशेषः । इति भगवद्गीता ॥ स असितमुनिपुत्त्रः रम्भाशापेनाष्टावक्रो बभूव । इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ (अयन्तु वेदव्यासस्य शिष्यः । यथा, देवीभागवते । १ । २० । ३ । “असितो देवलश्चैव वैशम्पायन एव च । जैमिनिश्च सुमन्तुश्च गताः सर्व्वे तपोधनाः ॥” प्रत्यूषस्य ऋषेः पुत्त्रः । यथा, विष्णुपुराणे । १ । १५ । ११५ । “प्रत्यूषस्य विदुः पुत्त्रं ऋषिं नाम्नाथ देवलम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देवलः [dēvalḥ], 1 An attendant upon an idol, a low Brāhmaṇa who subsists upon the offerings made to an idol; ......देवलाश्च कृषीवलाः Śiva. B.31.2.
A virtuous man.
N. of Nārada.
A husband's brother.
N. of a law-giver.
