सामग्री पर जाएँ

देवविद्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवविद्या¦ स्त्री देवज्ञानार्था विद्या। निरुक्तविद्यायाम्
“नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थइतिहासपुराणपञ्चमो वेदानां वेदः पित्र्यो राशि-र्दैवं निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूत-विद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैत-न्नामोपास्वेति” छा॰ उ॰
“ऋग्वेदं भगवोऽध्येमि स्मरामि। यद्वेत्थेति विज्ञानस्य स्पृष्टत्वात्तथा यजुर्वेदं सामवेदमा-थर्वणं चतुर्थवेदं वेदशब्दस्य प्रकृतत्वादितिहासपुराणंपञ्चमं येषां वेदानां तत् पञ्चमानां वेदानां वेदं व्याकर-णमित्यर्थः व्याकरणेन हि पदादिविभागश ऋग्वेदादयो-ज्ञायन्ते पित्र्यं श्राद्धकल्पम्। राशिर्गणितं दैवमुत्-पातज्ञानं निधिं महाकालादिनिधिशास्त्रम्। वाकोवाक्यं तर्कशास्त्रम्। एकायनं नीतिशास्त्रं देवविद्यांनिरुक्तं, ब्रह्मण ऋग्यजुः सामाख्यस्य विद्या ब्रह्मविद्याशिक्षाकल्पछन्दश्चितयस्ताः। भूतविद्यां भूततन्त्रम्। क्षत्रविद्यां धनुर्वेदम्। नक्षत्रविद्यां। ज्योतिषं सर्पविद्यांगारुडम्। देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्य-शिल्पादि विज्ञानानि। एतत् सर्वं हे भगवोऽध्येमि” भा॰

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवविद्या/ देव--विद्या f. divine science(= निरुक्तS3am2k. )

"https://sa.wiktionary.org/w/index.php?title=देवविद्या&oldid=309395" इत्यस्माद् प्रतिप्राप्तम्