सामग्री पर जाएँ

देवशर्म्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवशर्म्मन्¦ पु॰ देव इव शर्मा अशुभनाशकः, कर्म॰ वा।

१ ब्राह्म-णस्योपनामनि
“ततश्च नाम कुर्वीत पितैव दशमेऽहनि। देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम्” बिष्णुपु॰।
“नरमा-चष्टे नराख्यं नरनाम। देवपूर्वं देवात् पूर्वं तच्च विशिष्टंशर्मयुतं तच्चान्ते” शृणाति हिनस्त्यशुभ शॄ--मनिन् शर्मा। देवपदं हि विप्राणां नाममात्रसम्बद्धम्” शु॰ त॰।
“शर्मादेवश्च विप्रस्य शर्मा त्राता च भूभुजः। भृतिर्दत्तश्चवैश्यस्यदासः शूद्रस्य कारयेत्” यमवचने शर्म्मदेवयोः क्रमेणनिर्देशेऽपि
“शर्म्मान्तं व्राह्मणस्य स्यात् वर्म्मान्तं क्षत्रियस्यतु” शातातपोक्तेः शर्म्मान्ततैव नामनि ज्ञेया अतएव त-र्पणप्रयोगे
“अमुकगोत्रः पिता अमुकदेवशर्मा तृप्यतामे-तत्तिलोदकं तस्मै स्वधेति” आ॰ त॰।
“शर्म्मन्नर्घादिकेकार्य्ये शर्म्मा तर्पणकर्मणि” गोभिलेन च शर्मान्तताउक्ता।

२ ऋषिभेदे
“देवशर्म्मा च धौम्यश्च हस्तिकाश्यपएव च” भा॰ अनु॰

१६

५ ।

"https://sa.wiktionary.org/w/index.php?title=देवशर्म्मन्&oldid=309493" इत्यस्माद् प्रतिप्राप्तम्