सामग्री पर जाएँ

देवसर्षपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवसर्षपः, पुं, (देवप्रियः सर्षपः ।) वृक्षप्रभेदः । तत्पर्य्यायः । अश्वाक्षः २ वदरः ३ रक्तमूलकः ४ सुरसर्षपकः ५ सूक्ष्मदलः ६ निर्ज्जरसर्षपः ७ कुरराङ्घ्रिः ८ । अस्य गुणाः । कटुत्वम् । उष्ण- त्वम् । कफजन्तुदोषरक्तामयनाशित्वम् । रुच्य- त्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=देवसर्षपः&oldid=141283" इत्यस्माद् प्रतिप्राप्तम्