सामग्री पर जाएँ

देवसुषि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवसुषि¦ पु॰ देवैः प्राणादित्यादिभिः रक्ष्यमाणः सुषिःद्वारम्। प्राणादित्यादिभिः रक्ष्यमाणे हृदयस्य द्वार-भेदे। स च पञ्चसंख्याकः छा॰ उ॰ न्यरूपि यथा
“तस्य ह वा हृदयस्य पञ्च देवसुषयः स योऽस्य प्रा-ङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्ना-द्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद”
“अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छोत्रं सचन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान् यशस्वीभवति य एवं वेद”
“अथ योऽस्य प्रत्यङ्सुषिः सो-ऽपानः सा वाक् सोऽग्निस्तदेतद्ब्रह्मवर्चसमग्नाद्यमि-त्युपासीत ब्रह्मवर्चस्व्यन्नादो भवति य एवं वेद”
“अथयोऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यः तदेत-त्कीर्त्तिश्च व्युष्टिश्चेत्युपासीत कीर्त्तिमान् व्युष्टिमान्भवति य एवं वेद”
“अथ योऽस्योर्द्ध्वः सुषिः स उदानःस वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतओजस्वी माहस्वान् भवति य एवं वेद”
“ते वाएते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः सय एतानेव पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोलस्य द्वारपान् वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्ग[Page3745-b+ 38] लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्यद्वारपान् वेद”
“तस्य ह वा इत्यादिना गायत्र्याख्यस्यब्रह्मण उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थ-मारभ्यते। तस्येति प्रकृतस्य हृदयस्येत्यर्थः। एत-स्यानन्तरनिर्दिष्टस्य। पञ्च पञ्चसंख्याका देवानांसुषयो देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवैःप्राणादित्यादिभीरक्ष्यमाणानीत्यतो देवसुषयस्तस्य स्वर्ग-लोकभवनस्य हृदयस्यास्य यः प्राङ्सुषिः पूर्वाभि-मुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणः हृत्स्थस्तेनद्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीतिप्राणः। तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुस्तथैवादित्यः
“आदित्यो ह वै बाह्यप्राण इति श्रुतेः”
“चक्षूरूपप्रति-ष्ठाक्रमेण हृदि स्थितः।
“स आदित्यः कस्मिन् प्र-तिष्ठित इति चक्षुषीत्यादि” वाजसनेयके। प्राणवायु-देवतैव ह्येका चक्षुरादित्यश्च सहाश्रयेण। वक्ष्यतिच
“प्राणाय स्वाहेति हुतं हविः सर्वमेतत्तर्पयतीति”। तदेतत्प्राणाख्यं स्वर्गलोकद्वारत्वाद्ब्रह्म”
“स्वर्गलोकंप्रतिपित्सुस्तेजस्व्येतच्चक्षुरादित्यस्वरूपेणान्नादत्वाच्च स-वितुस्तेजीऽन्नाद्यमित्याभ्यां गुणाभ्यामुपासीत। ततस्ते-जस्व्यन्नादश्चामयावित्वरहितो भवति य एवं वेद तस्यै-तद्गुणफलम्। उपासनेन वशीकृतो द्वारपः स्वर्गलो-कप्राप्तिहेतुर्भवतीति मुख्यञ्च फलम्”
“अथ योऽस्यदक्षिणः सुषिः तत्स्थो वायुविशेषः स वीर्य्यवत्कर्म कुर्व-न्विगृह्य वा प्राणापानौ नाना वाऽनितीति व्यानस्त-त्सम्बद्धमेव च तच्छ्रोत्रमिन्द्रियं तथा स चन्द्रमाः”
“श्रोत्रेण सृष्टा दिशश्चन्द्रमाश्चेति” श्रुतेः। सहाश्रयंपूर्ववत्तदेतच्छ्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्न हेतुत्वमतस्ताभ्यां श्रोत्रज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वाद्यशस्त्वमतस्ताभ्यां गुणाभ्यामुपासीतेत्यादि समानम्”
“अथ योऽस्य प्रत्यङ्सुषिः पश्चिमस्तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन्नधोऽनितीत्यपानः सा तथा सा वाक्”
“तत्सम्बन्धात्तथाग्निस्तदेतद्ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम्अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य। अन्नग्रसनहेतुत्वादपा-नस्यान्नाद्यत्वम्। समानमन्यत्। अथो योऽस्योदङ्सुषि-रुदङ्गतः सुषिस्तत्स्थो वायुविशेषः सोऽशितपीते समंनयतीति समानः। तत्सम्बद्धं मनोऽन्तःकरणं स पर्जन्योवृष्ट्यात्मको देवः, पर्जन्यनिमित्ताश्चापः” इति।
“मनसा[Page3746-a+ 38] सृष्टा आपश्च वरुणश्चेति” श्रुतेस्तदेतत्कीर्त्तिश्च मनसोज्ञानस्य कीर्तिहेतुत्वात्। आत्मपरोक्षं विश्रुतत्वं कीर्ति-र्यशः स्वकरणसंवेद्यं विश्रुतत्वं व्युष्टिः कान्तिर्देह-गतं लावण्यम्। ततश्च कीर्त्तिसम्भवात्कीर्त्तिश्चेति। समानमन्यत्”
“अथ योऽस्योर्द्ध्वः सुषिः स उदान आपा-दतलादारभ्योर्द्ध्वमुत्क्रमणादुत्कर्षाच्च कर्म कुर्वन्नित्युदानःस वायुस्तदाधारश्चाकाशस्तदेतत्। वाय्वाकाशयोरोजो-हेतुत्वादोजो बलं महत्त्वाच्च महः इति। समानम-न्यत्। ते वै एते यथोक्ताः पञ्च सुषिसम्बन्धात्पञ्चव्रह्मणो हार्दस्य पुरुषा राजपुरुषा इव द्वारस्थाः स्व-र्गस्य हार्द्दस्य लोकस्य द्वारपालाः। एतैर्हि चक्षुः-श्रोत्रवाङ्मनःप्राणैर्वहिर्मुखप्रवृत्तैर्व्रह्मणो हार्दस्यप्राप्तिद्वाराणि निरुद्धानि। प्रत्यक्षं ह्येतदजितकरणतयावाह्यविषयासङ्गामृतप्ररूढत्वान्न हार्दब्रह्मणि मनस्ति-ष्ठति। तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्यलोकस्य द्वारपा इति। अतः स य एतानेवं यथोक्तगुण-विशिष्टान् स्वर्गस्य लोकस्य द्वारपान्वेदोपास्ते उपासनयावशीकरोति स राजद्वारपालानिवोपासनेन वशीकृत्यतैरनिवारितः प्रतिपद्यते स्वर्गं लोकं राजानमिव हार्दंब्रह्म। किञ्चास्य विदुषः कुले वीरः पुत्री जायते वीर-पुरुषसेवनात्। तस्य चर्ण्णापाकरणेन ब्रह्मोपासनप्रवृत्ति-हेतुत्वम्। ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्य्येण भव-तीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम्” भाष्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

देवसुषि/ देव--सुषि m. a divine tube or vital air (5 in number , viz. प्रा-ण, व्य्-आन, अपा-न, सम्-आन, उद्-आन) ChUp. iii , 13 , 1.

"https://sa.wiktionary.org/w/index.php?title=देवसुषि&oldid=309748" इत्यस्माद् प्रतिप्राप्तम्