देशान्तरम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देशान्तरम्, क्ली, (अन्यो देशः । मयूरव्यंसकादि- वत् समासः ।) सुमेरुलङ्कयोर्मध्यरेखास्वरूप- देशस्वदेशयोरन्तरयोजनम् । इति सिद्धान्तरह- स्यम् ॥ ये उदयान्तरकर्म्मणा लङ्कायामौद- यिका ग्रहा जातास्ते देशान्तरकर्म्मणा स्वपुरो- दयिकाः स्युः । तच्च द्बिविधं एकं पूर्ब्बापरं द्वितीयं याम्योत्तरं तच्चरसंज्ञमुक्तम् । यथा, -- “येऽनेन लङ्कोदयकालिकास्ते देशान्तरेण सुपुरोदये स्युः । देशान्तरं प्रागपरं तथान्यत् याम्योत्तरं तच्चरसंज्ञमुक्तम् ॥” इति सिद्धान्तशिरोमणिः ॥ * ॥ देशान्तरपरिभाषायां वृद्धमनुः । “वाचो यत्र विभिद्यन्ते गिरिर्व्वा व्यवधायकः । महानद्यन्तरं यच्च तद्देशान्तरमुच्यते ॥ देशनामनदीभेदान्निकटोऽपि भवेद्यदि । तत्तु देशान्तरं प्रोक्तं स्वयमेव स्वयम्भुवा ॥ दशरात्रेण या वार्त्ता यत्र न श्रूयतेऽथवा ॥ बृहस्पतिः । देशान्तरं वदन्त्येके षष्टियोजनमायतम् । चत्वारिंशद्वदन्त्येके त्रिंशदेके तथैव च ॥” इत्युद्वाहतत्त्वम् ॥ “मुनिद्बयवचनोक्तवागादियोजनादिभेदसामञ्ज- स्यार्थम् एवं व्याख्यायते त्रितयवैशिष्ट्ये त्रिंशद्- योजनाभ्यन्तरे द्वितयवैशिष्ट्ये तदुपरि एक- वैशिष्ट्ये चत्वारिंशद्योजनोपरि वाणीगिरि- महानद्यन्तरितत्वभेदाभावेऽपिषष्टियोजनोपरि वैदेश्यम् ।” इति शुद्धिचिन्तामणिः ॥
