देशिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देशिकः, पुं, (देशे प्रसितः इति । देश + ठक् ।) पथिकः । इति हेमचन्द्रः । ३ । १५७ ॥ (यथा, महाभारते । ७ । ५ । १० । “अदेशिको यथा सार्थः सर्व्वं कृच्छ्रं समृच्छति । अनायका तथा सेना सर्व्वान्दोषान् समृच्छति ॥”) गुरुः । यथा देशिको मूलमन्त्रेण इत्यागमः ॥ (यथा, महाभारते । १३ । १४७ । ४२ । “धर्म्माणां देशिकः साक्षात् स भविष्यति धर्म्म- भाक् । धर्म्मविद्भिः सदैवेशो नमस्कार्य्यः सदोद्यतैः ॥”)
