देहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहः, पुं क्ली, (देग्धि प्रतिदिनम् । दिह् वृद्धौ + अच् ।) शरीरम् । इत्यमरः । २ । ६ । ७१ । न्यायमते पृथिव्या देहं योनिजम् अयोनिजञ्च । योनिजं जरायुजमण्डजञ्च । अयोनिजं स्वेदजो- द्भिदादिकम् । नारकिणां शरीरमप्ययोनिजम् । जलीयं देहमयोनिजं वरुणलोके प्रसिद्धम् । तैजसं देहमयोनिजं सूर्य्यलोके प्रसिद्धम् । वायो- र्देहमयोनिजं तदेव पिशाचादीनाम् । इति सिद्धान्तमुक्तावली ॥ * ॥ अथ नरकभोगदेहविवरणम् । तत्र यमं प्रति सावित्रीप्रश्नः । “स्वदेहे भस्मसाद्भूते यान्ति लोकान्तरं नराः । केन देहेन वा भोगं भुञ्जते च शुभाशुभम् ॥ सुचिरं क्लेशभोगेन कथं देहो विनश्यति । देहो वा किंविधो ब्रह्मन् ! तन्मे व्याख्यातुमर्हसि ॥” यमस्योत्तरम् । “शृणु देहविवरणं कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ॥ देहिनां देहबीजञ्च स्रष्टुः सृष्टिविधौ परम् । पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत् ॥ स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ॥ वृद्धाङ्गुष्ठप्रमाणञ्च यो जीवपुरुषः कृतः । बिभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे ॥ स देहो न भवेद्भस्म ज्वलदग्नौ यमालये । जले न नष्ठो देही वा प्रहारे सुचिरे कृते ॥ न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा । तप्तद्रवे तप्तलौहे तप्तपाषाण एव च ॥ प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्द्ध्वपतनेऽपि च । न च दग्धो न भग्नश्च भुङ्क्त सन्तापमेव च ॥ कथितं देहवृत्तान्तकारणञ्च यथागमम् ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥ ईश्वरदेहस्य प्रमाणं यथा, -- “यन्मे गुह्यतमं देहं सर्व्वगं तत्त्वदर्शिनः । प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥” इति कूर्म्मपुराणम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहः [dēhḥ] हम् [ham], हम् [दिह्-घञ्]

The body; देहं दहन्ति दहना इव गन्धवाहाः Bv.1.14.

A form, shape, bulk, mass,

A person, an individual.

An appearance, a manifestation. -हः Anointing, smearing. -ही A rampart, wall, mound. -Comp. -अन्तरम् another body; किं नु तद् दुष्कृतं कर्म पुरा देहान्तरे कृतम् Rām.7.24.15. ˚प्राप्तिःf. transmigration. -आत्मवादः materialism, the doctrines of Chārvāka. -आत्मवादिन् m. a materialist, a Chārvāka.-आवरणम् armour, dress. -आसवः urine. -ईश्वरः the soul. -उद्भव, -उद्भूत a. born in the body, inborn, innate.-करः a father. -कर्तृ m.

the sun.

the Supreme Soul.

father.

कृत् the five elements.

the God; देहकृत् देहभृत् देही Mb.

father; त्रसदस्युः पौरुकुत्सो यो$नरण्यस्य देहकृत् Bhāg.9.7.4.

कोषः the covering of the body.

a feather, wing &c.

skin.

क्षयः decay of the body.

sickness, disease. -गत a. incarnate, embodied.

जः son.

a. Belonging to the body; मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिप्यते Ms.1.14. -जा a daughter.-तन्त्र a. whose chief kind of existence is corporeal; त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये Bhāg.3.33. 5.

त्यागः death (in general).

voluntary death; resigning the body; तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरष्वोर्देह- त्यागात् R.8.95; Ms.1.62. -दः quick-silver. -दीपः the eye. -धर्मः the function of the body (आहारनिद्रामैथु- नादि); Rām.4.35.9. -धारकम् a bone. -धारणम् living, life. -धिः a wing. -धृष् m. air, wind. -पातः death.-बद्ध a. embodied, incarnate; देहबद्धमिव धर्ममभ्यगात् R. 11.35; Ku.2.47. -बन्ध bodily frame; ध्वंसते देहबन्धः U.3.38; Māl.9.2. -भाज् a. embodied, corporeal. (-m) any being possessed of a body or life, especially a man; नायं देवो देहभाजां नृलोके Bhāg.5.5.1. -भुज् m.

the soul.

the sun. -भृत् m.

living being, especially a man; धिगिमां देहभृतामसारताम् R.8.51; देहभ्रतां वर Bg.8.4; 14.14.

an epithet of Śiva.

life, vitality. -भेदः death. -मध्यम् waist.

यात्रा dying, death.

nourishment, food. -यापनम् fostering the body (शरीरपोषण); देवतातिथिशेषेण कुरुते देहयापनम् Mb.3.26.6. -लक्षणम् a mole, a black or dark spot upon the skin. -वर्मन् n. the skin. -वायुः one of the five vital airs of lifewinds; see प्राण. -विसर्जनम् death. -वृन्तम् the navel. -संचारिणी a daughter. -सारः marrow. -स्वभावः bodily temperament.

"https://sa.wiktionary.org/w/index.php?title=देहः&oldid=311502" इत्यस्माद् प्रतिप्राप्तम्