देहात्मवादी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
देहात्मवादी, [न्] त्रि, (देहमेवात्मानं पर- ब्रह्म वदतीति । वद् + णिनिः ।) चार्व्वाकः । तस्येदं मतम् । शरीरमेवात्मा प्रज्वलितगृहात् स्वपुत्त्रं परित्यज्यापि स्वस्य निर्गमदर्शनात् स्थूलो- ऽहं कृशोऽहमित्यनुभवाच्च । अत्र प्रमाणम् । देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृताः । इति शारीरिकसूत्रभाष्यम् ॥ अपि च । “आत्मास्ति देहाद्व्यतिरिक्तभूर्त्ति- र्भोक्ता स लोकान्तरितः फलानाम् । आशेयमाकाशतरोः प्रसूनात् प्रथीयसः स्वादुफलप्रसूतौ ॥” इति प्रबोधचन्द्रोदयः ॥
