सामग्री पर जाएँ

दैनन्दिनप्रलय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दैनन्दिनप्रलयः, पुं, (दैनन्दिनश्चासौ प्रलयश्चेति कर्म्मधारयः ।) प्रलयविशेषः । यथा, -- “चतुर्द्दशेन्द्रावच्छिन्ने ब्रह्मणो दिनमुच्यते । तावती ब्रह्मणो रात्रिः सा च ब्राह्मी निशा नृप ! ॥ कालरात्रिश्च सा ज्ञेया वेदेषु परिकोर्त्तिता । एवं सप्तकल्पजीवी मार्कण्डेयो महातपाः ॥ ब्रह्मलोकादधः सर्व्वे लोका दग्धाश्च तत्र वै । उत्थितेनैव सहसा सङ्कर्षणमुखाग्निना ॥ चन्द्र्यकेब्रह्मपुत्त्राश्च ब्रह्मलोकं गता द्रुतम् । ब्रह्मरात्रे व्यतीते तु पुनश्च ससृजे विधिः ॥ तस्य ब्राह्मीनिशायाञ्च क्षुद्रप्रलय उच्यते । देवाश्च मुनयश्चैव तत्र दग्धा नरादयः ॥ एवं त्रिंशद्दिवारात्रैर्ब्रह्मणो मास एव च । वर्षं द्बादशमासैश्च ब्रह्मसम्बन्धि चैव हि ॥ एवं पञ्चदशाब्दे च गते च ब्रह्मणो नृप ! । दैनन्दिनस्तु प्रलयो वेदेषु परिकीर्त्तितः ॥ अहो रात्रिश्च सा प्रोक्ता वेदविद्भिः पुरातनैः । तत्र सर्व्वे प्रनष्टाश्च चन्द्रार्कादिदिगीश्वराः ॥ आदित्या वसवो रुद्रा मन्विन्द्रा मानवादयः ॥ ऋषयो मुनयश्चैव गन्धर्व्वा राक्षसादयः ॥ मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः । इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः । नाडीजङ्घो वकश्चैव सर्व्वे नष्टाश्च तत्र वै ॥ ब्रह्मलोकादधः सर्व्वे लोका नागालयास्तथा । ब्रह्मलोकं ययुः सर्व्वे ब्रह्मलोकादयस्तथा ॥ गते दैनन्दिने ब्रह्मा लोकांश्च ससृजे पुनः । एवं शतायुःपर्य्यन्तं परमायुश्च ब्रह्मणः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दैनन्दिनप्रलय¦ पु॰

६ त॰। ब्रह्मणः स्वमानानुसारेण प्रतिदि-नावसाने सर्वसृष्टवस्तूनां क्षये प्रलयविशेषे
“चतुर्दशेन्द्राव-च्छिन्नं ब्रह्मणो दिनमुच्यते। तावती ब्रह्मणो रात्रिः साच ब्राह्मी निशा नृप!। कालरात्रिश्च सा ज्ञेया वेदेषुपरिकीर्तिता। एवं सप्तकल्पजीवी मार्कण्डेयो महातपाः। ब्रह्मलोकादधः सर्वे लोका दग्धाश्च तत्र वै। उत्थितेनैवसहसा सङ्कर्षणमुखाग्निना। चन्द्रार्कव्रह्मपुत्राश्च ब्रह्मलोकं गता द्रुतम्। ब्रह्मरात्रे व्यतीते तु पुनश्च ससृजेविधिः। तस्य ब्राह्म्यां निशायाञ्च क्षुद्रप्रलयसम्भवः। एवं त्रिंशद्दिवारात्रैर्ब्रह्मणो मास एव च। वर्षं द्वादश-मार्सश्च ब्रह्मसम्बन्धि चैव हि। एवं परिमिताव्दे च गतेच व्रह्मणो नृप। दैनन्दिनस्तु प्रलयो वेदेषु परिकी-र्तितः। अहोरात्रश्च स प्रोक्तो वेदविद्भिः पुरातनैः। तत्र सर्व प्रनष्टाश्च चन्द्रार्कादिदिगीश्वराः। आदित्या-वसवो रुद्रा मन्विन्द्रा मानवादयः। ऋषयो मुनयश्चैवगन्धर्वा राक्षसदायः। मार्कण्डेयो लोमशश्च पेचक-श्चिरजीविनः। इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः। नाडीजङ्घो वकश्चैव सर्वे नष्टाश्च तत्र वै। ब्रह्मलोका-दधः सर्वे लोका नागालयास्तथा। ब्रह्मलोकं ययुःसर्व ब्रह्मलोकादवस्तथा। गते दैनन्दिने ब्रह्मा लोकांश्च[Page3756-b+ 38] ससृजे पुनः। एवं शतायुःपर्यन्त परमायुश्च ब्रह्मणः” व्र॰ वै॰ प्र॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दैनन्दिनप्रलय¦ m. (-यः) Destruction of the world after fifteen years of BRAMHA'S age. E. दैनन्दिन, and प्रलय destruction.

"https://sa.wiktionary.org/w/index.php?title=दैनन्दिनप्रलय&oldid=312169" इत्यस्माद् प्रतिप्राप्तम्