दैनन्दिनप्रलयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैनन्दिनप्रलयः, पुं, (दैनन्दिनश्चासौ प्रलयश्चेति कर्म्मधारयः ।) प्रलयविशेषः । यथा, -- “चतुर्द्दशेन्द्रावच्छिन्ने ब्रह्मणो दिनमुच्यते । तावती ब्रह्मणो रात्रिः सा च ब्राह्मी निशा नृप ! ॥ कालरात्रिश्च सा ज्ञेया वेदेषु परिकोर्त्तिता । एवं सप्तकल्पजीवी मार्कण्डेयो महातपाः ॥ ब्रह्मलोकादधः सर्व्वे लोका दग्धाश्च तत्र वै । उत्थितेनैव सहसा सङ्कर्षणमुखाग्निना ॥ चन्द्र्यकेब्रह्मपुत्त्राश्च ब्रह्मलोकं गता द्रुतम् । ब्रह्मरात्रे व्यतीते तु पुनश्च ससृजे विधिः ॥ तस्य ब्राह्मीनिशायाञ्च क्षुद्रप्रलय उच्यते । देवाश्च मुनयश्चैव तत्र दग्धा नरादयः ॥ एवं त्रिंशद्दिवारात्रैर्ब्रह्मणो मास एव च । वर्षं द्बादशमासैश्च ब्रह्मसम्बन्धि चैव हि ॥ एवं पञ्चदशाब्दे च गते च ब्रह्मणो नृप ! । दैनन्दिनस्तु प्रलयो वेदेषु परिकीर्त्तितः ॥ अहो रात्रिश्च सा प्रोक्ता वेदविद्भिः पुरातनैः । तत्र सर्व्वे प्रनष्टाश्च चन्द्रार्कादिदिगीश्वराः ॥ आदित्या वसवो रुद्रा मन्विन्द्रा मानवादयः ॥ ऋषयो मुनयश्चैव गन्धर्व्वा राक्षसादयः ॥ मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः । इन्द्रद्युम्नश्च नृपतिश्चाकूपारश्च कच्छपः । नाडीजङ्घो वकश्चैव सर्व्वे नष्टाश्च तत्र वै ॥ ब्रह्मलोकादधः सर्व्वे लोका नागालयास्तथा । ब्रह्मलोकं ययुः सर्व्वे ब्रह्मलोकादयस्तथा ॥ गते दैनन्दिने ब्रह्मा लोकांश्च ससृजे पुनः । एवं शतायुःपर्य्यन्तं परमायुश्च ब्रह्मणः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
