सामग्री पर जाएँ

दैनन्दिनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दैनन्दिनम्, त्रि, (दिनं दिनं भवं इत्यण् निपातनात् साधुः ।) दिनेदिने भवम् । (यथा, भागवते । ३ । ११ । २६ । “एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्त्तनः । तिर्य्यङ्नृपितृदेवानां सम्भवो यत्र कर्म्मभिः ॥”) स्वार्थष्णे प्रतिदिनम् । इति निपातनसाध्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=दैनन्दिनम्&oldid=141410" इत्यस्माद् प्रतिप्राप्तम्