सामग्री पर जाएँ

दैन्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दैन्यम्, क्ली, (दीनस्य भावः । दीन + ष्यञ् ।) कार्प- ण्यम् । इति हेमचन्द्रः । २ । २३३ ॥ दीनता । यथा, “याच्ञादैन्यपराञ्चि यस्य कलाहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं कथ्य- ताम् ॥” इति मुरारिमिश्रः ॥ (अलङ्कारोक्तव्यभिचारिगुणभेदः । यथा, साहित्यदर्पणे । ३ । १४१ । “दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दैन्यम्&oldid=141417" इत्यस्माद् प्रतिप्राप्तम्