दैवज्ञ
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवज्ञः, त्रि, (दैवं जानातीति । ज्ञा + कः ।) गणकः । इत्यमरः । २ । ८ । १४ ॥ (यथा, देवीभागवते । १ । २० । ३४ । “दैवज्ञान् वेदविदुषः पर्य्यपृच्छच्छभं दिनम् ॥”) अस्योत्पत्तिर्यथा, देवब्राह्मणधनापहारी धूमान्ध- नरकं भुक्त्वा शतजन्ममूषिक-नानाविधपक्षिकृमि- वृक्षभार्य्यावंशहीनव्याधियुतशवरस्वर्णकारसुवर्ण- बणिग्यवनसेविविप्रब्राह्मणगणका भूत्वा दैवज्ञो गणनोपजीविविप्रो भवति ॥ * ॥ अपि च । “लाक्षालोहादिव्यापारी रसादिविक्रयी च यः । स याति नागवेष्टञ्च नागैर्वेष्टित एव च ॥ वसेत् स्वलोममानाब्दं तत्रैव नागदंशितः । ततो भवेत् स गणको वैद्यश्च सप्तजन्मसु ॥ गोपश्च चर्म्मकारश्च रङ्गकारस्ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवज्ञ पुं।
ज्यौतिषिकः
समानार्थक:सांवत्सर,ज्यौतिषिक,दैवज्ञ,गणक,मौहूर्तिक,मौहूर्त,ज्ञानिन्,कार्तान्तिक
2।8।14।1।3
सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि। स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि॥
स्वामी : राजा
पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवज्ञ¦ त्रि॰ दैवं जानाति ज्ञा--क।
१ दैवचिन्तके प्रश्नादिनाशुभाशुभनिरूपिण्यां विप्रश्निकायां
२ स्त्रियां स्त्री
२ सङ्की-र्णजातिभेदे गणकशब्दे
२५
०२ पृ॰ दृश्यम् तज्जातिप्राप्तिहेतुश्च ब्रह्मवै॰ प्र॰ खण्डे उक्तो यथा(
“लाक्षालोहादिव्यापारी रसादिविक्रयी च यः। स याति नागवेष्टञ्च नागैर्वेष्टित एव च। वसेत् स्वलोममानावदं तत्रैव नागदंशितः। ततो भवेत् स गणकोवैद्यश्च सप्तजन्मसु। गोपश्च चर्मकारश्च रङ्गकारस्ततःशुचिः” स च अपकृष्टव्राह्मणः
“अव्राह्मणो भट्टदैवज्ञादि” प्रा॰ वि॰ अब्राह्मणशब्दे दृश्यम् तस्य च नक्षत्रसूचकत्व-दोषेण दूषितत्वादपकृष्टत्वम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Prophetic, fore-telling, acquainted with fate. m. (-ज्ञः) An astrologer. f. (-ज्ञा) A female fortune-teller. E. दैव, and ज्ञ who knows.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवज्ञ/ दैव--ज्ञ mfn. knowing fate or men's destinies
दैवज्ञ/ दैव--ज्ञ m. = -चिन्तकN. of शिवYa1jn5. MBh. Ka1v. etc.