सामग्री पर जाएँ

दैवम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दैवम्, क्ली, (देवस्येदम् । देव + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) देवतीर्थम् । तत् दक्षिण- हस्ताङ्गुल्यग्रवर्त्ति । इत्यमरः । २ । ७ । ५१ ॥ (यथा, मनुः । २ । ५९ । “काथमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः ॥”) देवसम्बन्धिनि, त्रि । यथा, -- “प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् । नापि दैवं न वा पित्र्यं यावत् पूर्णो न वत्सरः ॥” इति शुद्धितत्त्वम् ॥ विवाहविशेषे, पुं । इत्युद्बाहतत्त्वम् ॥ अस्य विव- रणं उद्वाहशब्दे द्रष्टव्यम् । (दिवि भवः । दिव् + अण् ।) दिविभवे, त्रि ॥

दैवम्, क्ली, पुं, (देवात् नियतादागतम् । देव + अण् ।) भाग्यम् । इत्यमरः । १ । १ । २८ ॥ “दैवाधीनं जगत् सर्व्वं जन्मकर्म्मशुभाशुभम् । संयोगाश्च वियोगाश्च न च दैवात् परं बलम् ॥ कृष्णायात्तञ्च तद्दैवं स देवात् परतस्ततः । भजन्ति सततं सन्तः परमात्मानमीश्वरम् ॥ दैवं वर्द्धयितुं शक्तः क्षयं कर्त्तुं स्वलीलया । न दैवबद्धस्तद्भक्तश्चाविनाशी च निर्गुणः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥ * ॥ मनुरुवाच । “दैवे पुरुषकारे च किं ज्यायस्तद्ब्रवीतु मे । अत्र मे संशयो देव ! छेत्तुमर्हस्यशेषतः ॥ मत्स्य उवाच । स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्ज्जितम् । तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ प्रतिकूलं यथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम् ॥ येषां पूर्ब्बकृतं कर्म्म सात्त्विकं मनुजोत्तम् ! । पौरुषेण विना तेषां केशाञ्चिद्दृश्यते फलम् ॥ कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम् ॥ पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः । दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः ॥ तस्मात्त्रिकालसंयुक्तं दैवेन सफलं भवेत् । पौरुषं दैवसम्पत्त्या काले फलति पार्थिव ! ॥ दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! । त्रयमेव मनुष्यस्य पिण्डितं स्यात् फलावहम् । कृषेर्वृष्टिसमायोगात् दृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥ तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः । एवन्ते प्राप्नुवन्तीह परलोके फलं ध्रुवम् ॥ नालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात् सदैव यत्नेन पौरुषे यत्नमाचरेत् ॥ त्यक्तालसान्दैवपरान् मनुष्या- नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्नाद्वृणुते नृपेन्द्र ! तस्मात् सदोत्थानवता हि भाव्यम् ॥” इति मत्स्यपुराणे १९५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=दैवम्&oldid=141425" इत्यस्माद् प्रतिप्राप्तम्