दैवयुग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवयुगम्, क्ली, (दैवं देवसम्बन्धि युगम् ।) देवानां युगम् । तच्च देवमानेन द्वादशसहस्रवर्षम् । मनुष्यपरिमाणेन चतुर्युगमानम् । इति शब्दार्थ- कल्पतरुः ॥ (यदुक्तं मनौ । १ । ७१ । “थदेतत् परिसंख्यातमादावेव चतुर्युगम् । एतद्बादशसाहस्रं देवानां युगमुच्यते ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवयुग¦ न॰ देवस्वेदम् अण् कर्म॰। दिव्ये युगे देवमानेनद्वादशसहस्रवर्षमितकाले
“यदेतत् परिसंख्यातमादावेवचतुर्युगम्। एतत् द्वादशसाहस्रं देवानां युगमुच्यते” मनुः
“सुरासुराणामन्योऽन्यमहोरात्रो विपर्ययात्। तत्-षष्टिः षड्गुणा दिव्यं वर्षमासुरमेव च” सू॰ सि॰
“देव-दैत्यानां बहुत्वाद्बहुवचनम्। अन्योऽन्यम् परस्परग्विपर्ययात् व्यत्यासात् अहोरात्रः। अयमर्थः। देवानां यद्दिनं तदसुराणां रात्रिः। देवानां या रात्रि-स्तदसुराणां दिनम्। दैत्यानां यद्दिनं तद्देवानां[Page3759-b+ 38] रात्रिः। देत्यानां या रात्रिस्तद्देवानां दिनमिति। तथा च देवदैत्ययोर्दिनरात्र्योरेव व्यत्यासाद्भेदो नमानेनेति। तयोरहोरात्रस्यैक्याद्देवाहोरात्रमानकथने-नैव दैत्याहोरात्रमानमुक्तमिति मावः” रङ्ग॰।
“तद्घाशस-हस्राणि चतुर्युगमुदाहृतम्। सूर्य्याव्दसङ्ख्यया द्वित्रिसागरैरयुताहतैः। सन्ध्यासन्ध्यंशसहितं विज्ञेयंतच्चतुर्युगम्। कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया” सू॰ सि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवयुग¦ m. (-गः) An age of the gods or immortals: see दैत्ययुग |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवयुग/ दैव--युग n. an age of the gods(See. दैत्य-) MW.