दैववंश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैववंश¦ पु॰ देवानामयम् अण् कर्म॰। देवानां वंशे तद्वंश-वर्णनञ्च वायुपु॰
३१ अ॰ यथा
“पितृवंशप्रसङ्गेन कथा-ह्येषा प्रकीर्तिता। पितॄणामानुपूर्व्येण देवान् वक्ष्या-म्यतःपरम्। त्रेतायुगमुखे पूर्वमासन् स्वायम्भुवेऽन्तरे। देवा यामा इति ख्याताः पूर्वं ये यज्ञसूनवः। अजिताब्रह्मणः पुत्रा जिताजिदजिताश्च ये। पुत्राः स्वायम्भुव-स्यैते शुक्रनाम्ना तु मानसाः। तृप्तिमन्तोगणा ह्येतेदेवानान्तु त्रयः स्मृताः। छन्दोगास्तु त्रयस्त्रिंशत् सर्वेस्वायम्भुवस्य ह। यदुर्ययातिर्द्वौदेवौ दीधयः स्रवसोमतिः। विभासश्च क्रतुश्चैव प्रजातिर्विशतोद्युतिः। वायसो मङ्गलश्चैव यामा द्वादश कीर्तिताः। अभिमन्यु-रुग्रदृष्टिः समयोऽथ शुचिश्रवाः। केवलो विश्वरूपश्चसुपक्षो मधुपस्तथा। तुरीयो निर्हपुश्चैव युक्तोग्रावा-शिनस्तु ते। यमिनो विश्वदेवाद्यो यविष्ठोऽमृतवानपि। [Page3760-a+ 38] अजिरो विभुर्विभावश्च मृलिकोऽथ विदेहकः। श्रुतिशृणो वृहच्छुक्रोदेवा द्वादश कीर्तिताः। आसन् स्वाय-म्भुवस्यैते अन्तरे सोमपायिनः। त्विषिमन्तो गणा ह्येतेवीर्यवन्तो महाबलाः। तेषामिन्द्रः सदा ह्यासीद् विश्व-भुक् प्रथमो विभुः। असुरा ये तदा तेषामासन् दायादवान्धवाः। सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः। अष्टौ पितृभिः सार्द्धं ते नासत्या देवयोनयः”।
