दैवसृष्टि
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दैवसृष्टि¦ स्त्री देवस्येयम् अण दैवी कर्म॰। स्वयम्भूकृ-तायां देवानां सृष्टौ। तत्प्रकारश्च वायुपु॰
९ अ॰ उक्तोयथा
“सृष्ट्वा सुरांस्तु देवेशस्तनुमन्यामपद्यत। अरक्तांसत्त्वबहुलां ततस्तां सोऽभ्ययूयुजत्। ततस्तां युञ्जतस्तस्यप्रियमासीत् प्रभोः किल। ततो मुखे समुत्पन्ना दीव्यत-स्तस्य देवताः। यतोऽस्य दीव्यतो जातास्तेन देवाः प्र-कीर्तिताः। धातुर्दिवीति यः प्रोक्तः क्रीडायां स वि-भाव्यते। तस्यान्तन्वान्तु दिव्यायां जज्ञिरे तेन देवताः”।
