सामग्री पर जाएँ

दैव्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दैव्यम्, क्ली, (देवस्य इदम् । “देवाद्यञञौ ।” ४ । १ । ८५ । इत्यस्य वार्त्तिकोक्त्या यञ् ।) दैवम् । भाग्यम् । इत्यमरटीकायां भरतः ॥ (देव- सम्बद्धे, त्रि । यथा, ऋग्वेदे । २ । ३० । ११ । “तं वः शर्घं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=दैव्यम्&oldid=141457" इत्यस्माद् प्रतिप्राप्तम्