सामग्री पर जाएँ

दोलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दोलः, पुं, दोलनम् । दुलधातोर्भावे घञ्प्रत्य- येन निष्पन्नः । (दोल्यते अस्मिन् कृष्णेनेति । दोलि + अधिकरणे घञ् ।) श्रीकृष्णस्य यात्रा- विशेषः । अस्य प्रमाणं यथा, पाद्मे पातालखण्डे । “विशेषतः कलियुगे दोलोत्सवो विधीयते । फाल्गुने च चतुर्द्दश्यामष्टमे यामसंज्ञके ॥ अथवा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ । पूजयेद्बिधिवद्भक्त्या फल्गुचूर्णैश्चतुर्विधैः ॥ सितरक्तेर्गौरपीतैः कर्पूरादिविमिश्रितैः । हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनोहरैः ॥ अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् । एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ॥ पञ्चाहानि त्र्यहाणि स्युर्दोलोत्सवो विधीयते । दक्षिणाभिमुखं कृष्णं दालयानं सकृन्नराः ॥ दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ॥” अपि च । जैमिनिरुवाच । “फाल्गुने मासि कुर्व्वीत दोलारोहणमुत्तमम् । यत्र क्रौडति गोविन्दो लोकानुग्रहणाय वै ॥ प्रत्यर्च्चां देवदेवस्य गोविन्दाख्यान्तु कारयेत् । प्रासादं पुरतः कुर्य्यात् षोडशस्तम्भमुच्छ्रितम् ॥ विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् । तस्मात् कार्य्यशतं त्यक्त्वा दोलाहे उत्सवं कुरु ॥” अथ दोलोत्सवविधिः । “चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च । नित्यपूजां विधायाथ कुर्य्याद्दोलोत्सवं व्रती ॥ तदर्थञ्च विशेषेण नैवेद्यादिकमर्पयेत् । संमान्य वैष्णवांस्तैश्च गीतनृत्यादि कारयेत् ॥ महानीराजनं कृत्वा प्रक्षिपेदच्युतोपरि । गन्धानुलेपचूर्णानि विचित्राणि विभागशः ॥ सन्तोष्य वैष्णवांस्तैश्च गीतनृत्यादिभिः प्रभुम् । नत्वाभ्यर्थ्याप्रमत्तः सन् दोलामारोहयेच्छुभाम् ॥ नीत्वा वहिर्व्वेदिकायामुत्तुङ्गायां यथाविधि । अभ्यर्च्यान्दोलयेत् कृष्णं सर्व्वलोकावलोकितम् ॥ एवमभ्यर्च्चयन् यामे यामे त्वान्दोलयन् प्रभुम् । महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः ॥ एवं जागरणं कृत्वा वैष्णवैः सह वैष्णवः । प्रणम्य प्रार्थ्य निर्म्मञ्छ्य कृष्णं स्वालयमानयेत् ॥ चैत्रे मासि सिते पक्षे तृतीयायां रमापतिम् । दोलारूढं समभ्यर्च्ये मासमान्दोलयेत् कलौ ॥ यत् फाल्गुनस्य राकादावुत्तराफाल्गुनी यदा । तदा दोलोत्सवः कार्य्यस्तच्च श्रीपुरुषोत्तमे ॥” इति हरिभक्तिविलासः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दोलः [dōlḥ], [दुल्-घञ्]

Swinging, rocking, oscillating; वेलादोलानिलचलम् Mb.1.21.1.

A swing, litter.

A festival held on the fourteenth or full-moon day of the month of Phālguna when figures of 'young Kṛiṣṇa' (बालकृष्ण) are swung in a swing. -Comp. -मण्डपः, -पम्, -यानम् a swing.

"https://sa.wiktionary.org/w/index.php?title=दोलः&oldid=313280" इत्यस्माद् प्रतिप्राप्तम्