सामग्री पर जाएँ

दोषज्ञः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

दोषज्ञः, त्रि, (दोषं जानातीति । दोष + ज्ञा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा, रघुः । १ । ९३ । “अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् । सूनुः सूनृतवाक् स्रष्टुः विससर्जोदितश्रियम् ॥” दोषान् वातपित्तकफान् जानातीति । कः ।) चिकित्सकः । इति हेमचन्द्रः । ३ । ५ ॥ दोष- विषयकज्ञानयुक्तश्च ॥

"https://sa.wiktionary.org/w/index.php?title=दोषज्ञः&oldid=141507" इत्यस्माद् प्रतिप्राप्तम्