दोषाङ्कुश
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोषाङ्कुश¦ पु॰ दोषाणां काव्यदोषाणामङ्कुश इव निरासक-त्वात्। चन्द्रालोकोक्ते काव्यदोषनिवारके काव्यधर्मभेदेतल्लक्षणादि तत्रोक्तं यथा
“दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम्। निवारयतियस्त्रेधा दोषाङ्कुशमुशन्ति तम्। दोषो गुणत्वं तनुते दो-षत्वं वा निरस्यति। भवन्तमथ वा दोषं नयत्यत्याज्यता-मसौ। मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः। अत्रहास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम्। तव दुग्धाब्धिस-म्भूतेः कथं जाता कलङ्किता। कवीनां समयाद्विद्याविरु-द्धोऽदोषतां गतः। दधार गौरी हृदये देवं हि मकरा-ङ्कितम्। अत्र श्लेषोदयान्नैव त्थाज्यं हीति निरर्थकम्”।
