दोषैकदृश्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोषैकदृक्, [श्] त्रि, (दोषे एवैकस्मिन् न तु गुणसंघे दृक् ज्ञानमस्येति । यद्वा, दोषमेव एकं केवलं पश्यतीति । दृश + क्विप् ।) दोषमात्र- दर्शी । यो गुणं त्यक्त्वा केवलं दोषमेव पश्यति सः । दोषे एकस्मिन्नेव ज्ञानं यस्य सः । इति भरतः ॥ तत्पर्य्यायः । पुरोभागी २ । इत्य- मरः । ३ । १ । ४६ ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोषैकदृश् वि।
दोषैकग्राहकः
समानार्थक:दोषैकदृश्,पुरोभागिन्
3।1।46।2।1
शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ। दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोषैकदृश्¦ त्रि॰ दोषमेवैकं पश्यति दोषैकशब्दयोः कर्मधा-रये एकशब्दस्य पूर्वकालैकेत्यादि पा॰ परनिपाते तत्पूर्व-कात् दृशः क्विप्। खले अमरः। दोषे एकस्मिन् दृग्-ज्ञानं यस्येति विग्रहं वदन् भरतः भ्रान्तएव सति गत्य-न्तरे व्यधिकरणबहुव्रीहेरसाधुत्वनियमात्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोषैकदृश्¦ mfn. (-दृक्) Malevolent, censorious, discovering defects only. E. दोष a fault. एक one, alone, and दृष् seeing.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोषैकदृश्/ दोषै mfn. seeing only -ffault , censorious L.