दोहः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोहः, पुं, (दोग्धि अस्मिन्निति । दुह + आधारे घञ् ।) दोहनपात्रम् । इति शब्दचन्द्रिका ॥ (यथा, भागवते । ४ । १८ । २७ । “एवं पृथ्वादयः पृथ्वीमन्नादाः स्वन्नमात्मनः । दोहवत्सादिभेदन क्षीरभेदं कुरूद्बह ! ॥” दुह्यते इति । दुह् + कर्म्मणि घञ् ।) दुग्धम् । (“दुह्यते इति दोहः क्षीरं ह्यो गोदोहस्य विकारः हैयङ्गवीनम् ।” इति सिद्धान्तकौमुदी ॥ दुह् + भावे घञ् ।) दोहनम् ॥ (यथा, रघुः । २ । २३ । “दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोहः [dōhḥ], [दुह् भावे घञ्]
Milking; आश्चर्यो गवां दोहो$गोपेन Sk.; Ku.1.2; R.2.28;17.19.
Milk.
A milkpail; दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह Bhāg.4.18.27.
Making profit out of anything, satisfaction, success, gain; वाग्दोहं वाचो दोहो$न्नवानन्नादो भवति Ch. Up.1.3.7.-Comp. -अपनयः, -जम् milk.
