दोहदवती
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोहदवती, स्त्री, (दोहदो गर्भिण्यभिलाषोऽस्त्यस्या इति । दोहद + मतुप् मस्य वः । ङीप् च ।) अन्नपानादिद्रव्यविशेषाभिलाषवती गर्भवती । इति भरतः ॥ तत्पर्य्यायः । श्रद्धालुः २ । इत्य- मरः । २ । ६ । २१ ॥ * ॥ गर्भिणीकर्त्तव्याकर्त्तव्यं यथा, -- “दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः । त्वया यत्नो विधातव्यः अस्मिन् गर्भे वरानने ! ॥ संवत्सरशतन्त्वेकमस्मिन्नेव तपोवने । सन्ध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ! ॥ न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्व्वदा । नोपस्करेषूपविशेन्मुषलोलूखलादिषु ॥ जलञ्च नावगाहेत शून्यागारञ्च वर्ज्जयेत् । वल्मीकेषु न तिष्ठेत न चोद्विग्नमना भवेत् ॥ विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना । न शयालुः सदा तिष्ठेद्व्यायामञ्च विवर्ज्जयेत् ॥ न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् । वर्ज्जयेत् कलहं लोके गात्रभङ्गञ्च वर्ज्जयेत् ॥ न मुक्तकेशा तिष्ठेत नाशुचिः स्यात् कदाचन । न शयीतोत्तरशीरा न चापरशिराः क्वचित् ॥ न वस्त्रहीना नोद्बिग्ना न चार्द्रचरणा सती । नामाङ्गल्यां वदेद्बाचं न च हास्याधिकाभवेत् ॥ कुर्य्याच्च गुरुशुश्रूषां नित्यमङ्गलतत्परा । सर्व्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ॥ कृतरक्षा सुभूषा च वास्तुपूजनतत्परा । तिष्ठेत् प्रसन्नवदना भर्त्तुः प्रियहिते रता ॥ दानशीला तृतीयायां पार्व्वत्या नक्तमाचरेत् । इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ॥ यस्तु तस्या भवेत् पुत्त्रः शंतायुर्बुद्धिसंयुतः । अन्यथा गर्भपतनमवाप्नोति न संशयः ॥ तस्मात्त्वमनया वृत्त्या गर्भेऽस्मिन् यत्नमाचर ॥” इति मत्स्यपुराणम् ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोहदवती स्त्री।
गर्भवशादभिलाषविशेषवती
समानार्थक:श्रद्धालु,दोहदवती
2।6।21।2।2
ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्. श्रद्धालुर्दोहदवती निष्कला विगतार्तवा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोहदवती¦ स्त्री दोहद + अस्त्यर्थे मतुप् मस्य वः। द्रव्य-विशेषाभिलाषवत्यां गर्भिण्याम् अमरः। दोहदान्विता-प्यत्र हेमच॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोहदवती¦ f. (-ती) A pregnant woman longing for any thing. E. दोहद as above, and मतुप् aff.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोहदवती [dōhadavatī], A pregnant woman longing for anything.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दोहदवती/ दोहद--वती f. having a pregnant woman's longing for anything L.