दौवारिकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दौवारिकः, पुं, (द्बारि नियुक्तः । “तत्र नियुक्तः ।” ४ । ४ । ६९ । इति ठक् । ततः “द्वारादीनाञ्च ।” ७ । ३ । ४ । इति न बृद्धिः औ-आगमश्च ।) द्वाररक्षकः । (यथा, राजतरङ्गिण्याम् । ५ । २८ । “राजदौवारिकः श्रीमाञ्छूरस्यासीन्महोदयः ॥”) तत्पर्य्यायः । द्वाःस्थः २ क्षत्ता ३ दण्डी ४ वेत्र- धरः ५ । इति हलायुधः ॥ प्रतीहारः ६ प्रतिहारः ७ दर्शकः ८ द्बारी ९ वेतालः १० द्वारपालकः ११ दौःसाधिकः १२ वर्त्तरूढः १३ गर्व्वाटः १४ दण्डपांशुलः १५ । इति शब्द- रत्नावली ॥ द्बाःस्थितः १६ वेत्रधारकः १७ वर्त्त- रूकः १८ दण्डवासी १९ । इति त्रिकाण्डशेषः ॥ तस्य लक्षणं यथा, -- “प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः । चित्तग्राहश्च सर्व्वेषां प्रतीहारो विधीयते ॥” इति मत्स्यपुराणम् ॥ “इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः । अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥” इति चाणक्यम् । १०८ ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
दौवारिकः [dauvārikḥ], (-की f.) A door-keeper, warder; दौवारिकी देवसरूपमेत्य R.6.59.
