सामग्री पर जाएँ

द्यावापृथिव्यौ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्यावापृथिव्यौ, स्त्री, (द्यौश्च पृथिवी च । “दिव- सश्च पृथिव्याम् ।” ६ । ३ । ३० । इति चात् दिवो द्यावा ।) स्वर्गपृथीव्यौ । इति हेमचन्द्रः । ४ । ४ ॥ (यथा, मनुः । ३ । ८६ । “कुह्वै चैवानुमत्यै च प्रजापतय एव च । सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥”) तद्वैदिकपर्य्यायः । स्वधे १ पुरन्धी २ धिषणे ३ रोदसी ४ क्षोणी ५ अम्भसी ६ नभसी ७ रजसी ८ सदसी ९ सद्मनी १० घृतवती ११ बहुले १२ गभीरे १३ गम्भीरे १४ ओम्ण्यौ १५ चम्बौ १६ पार्श्वौ १७ मही १८ ऊर्व्वी १९ पृथ्वी २० अदिती २१ अही २२ दूरे २३ अन्ते २४ अणारे २५ अरे २६ पारे २७ । इति सप्तविंशतिर्द्यावा- पृथिव्योर्न्नामधेयानि । इति वेदनिघण्टौ ३ अः ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्यावापृथिव्यौ स्त्री।

भूम्याकाशयोः_नाम

समानार्थक:द्यावापृथिव्यौ,रोदस्,द्यावाभूमी,रोदसी,दिवस्पृथिव्यी

2।1।19।1।1

द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी। दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः॥

पदार्थ-विभागः : नाम

"https://sa.wiktionary.org/w/index.php?title=द्यावापृथिव्यौ&oldid=184642" इत्यस्माद् प्रतिप्राप्तम्