सामग्री पर जाएँ

द्युगणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्युगणः पुं, (द्यूनां दिनानां गणः ।) अहर्गणः । तस्यानयनमाह । “कथितकल्पगतोऽर्कसमा गणा रविगुणो गतमाससमन्वितः । खदहनैर्गुणितस्तिथिसंयुतः पृथगतोऽधिकमाससमाहतात् ॥ रविदिनाप्तगताधिकमासकैः कृतदिबैः सहितो द्युगणो विधोः । पृथगतः पठितावमसंगुणा- द्बिधुदिनाप्तगतावमवर्ज्जितः ॥ भवति भास्करवासरपूर्ब्बको दिनगणो रविमध्यमसावनः । अधिकमासदिनक्षयशेषतो द्युघटकादिकमत्र न गृह्यते ॥” इति सिद्धान्तशिरोमणिः ॥

"https://sa.wiktionary.org/w/index.php?title=द्युगणः&oldid=141598" इत्यस्माद् प्रतिप्राप्तम्