द्युमणिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्युमणिः, पुं, (द्युनो गगनस्य मणिरिव ।) सूर्य्यः । (यथा, भागवते । ८ । १० । ३८ । “रेणुर्दिशः खं द्युमणिञ्च छादयन् न्यवर्त्ततासृक्सुतिभिः परिप्लुतात् ॥”) अर्कवृक्षः । इत्यमरः ॥ (परिशोधितताम्रम् । यथा, -- “विषमहौषघभागमधिकोषणा द्युमणिरक्तकमार्द्रकमर्द्दितम् ॥ द्युमणिः मारितं ताम्रम् ॥” इति भावप्रकाशस्य मध्यखण्डे १ भागे वातज्वराधिकारे ॥)
