द्यूतप्रतिपद्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्यूतप्रतिपत्, [द्] स्त्री, (द्यूताय क्रीडार्थं या प्रतिपत् ।) कार्त्तिकशुक्लप्रतिपत् । सा च कौमुदी । यथा, -- “तुष्ट्यर्थं कार्त्तिके तस्य शुक्ला या प्रतिपत्तिथिः । विष्णोर्दत्ता मही तत्र कौमुदी सा स्मृता बुधैः ॥ कुशब्देन मही ज्ञेया मुदा हर्षे च वै द्बिज ! । धातुज्ञैः सर्व्वशब्दज्ञैः सा च वै कौमुदी स्मृता ॥” इति पाद्मोत्तरखण्डम् ॥ * ॥ अत्र तिथौ बलिदैत्यपूजादि कार्य्यम् । तद्यथा, “वामनपुराणे कार्त्तिकशुक्लपक्षमधिकृत्य बलि- म्प्रति भगवद्वाक्यम् । वीरप्रतिपदा नाम तव भावी महोत्सवः । अत्र त्वां नरशार्द्दूल ! हृष्टाः पुष्टाः स्वलङ्कृताः ॥ पुष्पदीपप्रदानेन पूजयिष्यन्ति मानवाः ॥ अत्र मन्त्रः । बलिराज ! नमस्तुभ्यं विरोचनसुत ! प्रभो । भविष्येन्द्र सुराराते ! पूजेयं प्रतिगृह्यताम् ॥ ब्रह्मपुराणे तु बलिराजेतिमन्त्रस्य पूर्ब्बम् । मन्त्रेणानेन राजेन्द्र ! समन्त्री सपुरोहितः ॥ इत्यर्द्धम् । पश्चादपि । एवं पूजां नृपः कृत्वा रात्रौ जागरणं चरेत् । इत्युक्तम् ॥ पुनर्ब्रह्मपुराणे । शङ्करश्च पुरा द्यूतं ससर्ज्ज सुमनोहरम् । कार्त्तिके शुक्लपक्षे तु प्रथमेऽहनि भूपते ! ॥ जितश्च शङ्करस्तत्र जयं लेभे च पार्व्वती । अतोऽर्थाच्छङ्करो दुःखी गौरी नित्यं सुखोषिता ॥ तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः । तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः ॥ पराजयो विरुद्धश्च लब्धनाशकरो भवेत् ॥ भविष्योत्तरे । यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! । हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि ॥ महापुण्या तिथिरियं बलिराज्यप्रवर्द्धिनी । स्नानं दानं शतगुणं कार्त्तिकेऽस्यां तिथौ भवेत् ॥” इति तिथितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्यूतप्रतिपद्(दा)¦ द्यूतार्था प्रतिपद् वा टाप्। कार्त्तिक-शुक्लप्रतिपदि तत्र द्यूतविधानं ति॰ त॰ यथा ब्रह्म॰ पु॰
“शङ्करश्च पुरा द्यूतं ससर्ज्ज सुमनोहरम्। कार्त्तिके-शुक्लपक्षे तु प्रथमेऽहनि भूपते!। जितश्च शङ्करस्तत्र जयंसेभे च पार्वती। अतोऽर्थाच्छङ्करो दुःखी गौरी नित्यं[Page3775-a+ 38] सुखोषिता। तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मा-नवैः”।
“द्यूतप्रतिपदा नाम तव भावी महोत्सवः” ति॰ त॰ धृतं बलिं प्रति भगवद्वाक्यम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्यूतप्रतिपद्/ द्यूत--प्रतिपद् f. the first day of the bright half of the month कार्त्तिक(celebrated by gambling) L.
