द्रढिमा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रढिमा, [न्] पुं, (दृढस्य भावः । दृढ + “पृथ्वा- दिभ्य इमनिज्वा ।” ५ । १ । १२२ । इति इम- निच् । “र ऋतो हलादेर्लघोः ।” ६ । ४ । १६१ । इति ऋकारस्य रकारः ।) दृढता ॥ (यथा, शिवशतके । ४३ । “लघुगुरुतुलनातुलाप्रकाण्ड- द्रढिमगुणः स भवद्गुणत्रयस्य ॥”)
