सामग्री पर जाएँ

द्रवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्रवः, पुं, (द्रु + “ऋदोरप् ।” ३ । ३ । ५७ । इति भावे अप् ।) परीहासः । पलायनम् । इत्यमरः । १ । ७ । ३२ ॥ (यथा, हरिवंशे । २११ । १० । “ततो दैत्यद्रवकरं पौराणं शङ्खमुत्तमम् ॥”) रसः । गतिः । इति विश्वः ॥ वेगः । इति शब्द- रत्नावली ॥ (यथा, हरिवंशे । १९३ । ५ । “तत्र शब्दगतिर्भूत्वा मारुतद्रवसम्भवः ॥” द्रवत्वरूपो गुणविशेषः । यथा, भाषापरि- च्छेदे । २८ । “गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः ॥” आर्द्रे, त्रि । यथा, रघुः । ७ । ७ । “प्रसाधिकालम्बितमग्रपाद- माक्षिप्य काचित् द्रवरागमेव ॥”)

"https://sa.wiktionary.org/w/index.php?title=द्रवः&oldid=141667" इत्यस्माद् प्रतिप्राप्तम्